This page has not been fully proofread.

षष्ठसर्गः
 
काया: रागोद्दीपकतया पादचुम्बनादयश्च नैषाधादिषु वर्ण्यन्ते । यथाह
श्रीहर्ष: – "स्वेन भावभजने स तु प्रियां बाहुमूलकुचनाभिचुम्बनैः ।
निर्ममे रतरहस्समापना शर्मसारसमसंविभागिनीम " " लाक्षयात्मचरणस्य
चुम्बनाच्चारुफालमवलोक्य तन्मुखम्" इति । अत्यविशेषणादि
साम्येन काचिदप्रकृतार्थान्तरप्रतीतिरप्येवं संभवति । 'अम्बुपूर' शब्देन
'अम्बुराशे: ' समुद्रस्य प्रतीतिः । मुखशशिबिम्बमिति च रूपकमिति
शशिनः स्फूर्तिः । चन्द्रस्य समुद्रोत्यन्नत्वेन तत्सुतत्वं प्रसिद्धमिति तं
शिशुमयं मातेव पादयोः लालयति । अङ्के करोति । स्तन्यं पाययति
कपोले चुम्बतीत लोके मातृव्यवहारोप्यत प्रतीयते इति ॥
 

 
विशदनखपदं वपुस्सपत्न्या
 
[ चिरमिव ] पश्यति निनिमेषमस्मिन् ।
व्यधित विहृतिकैतवेन काचि
त्प्रहितजला परिमीलितामेनम् ॥
 
"
 
393
 
11 61 11
 
विशदेति ॥ अस्मिन् राज्ञि । विशदानि व्यक्तानि नखपदानि
नखक्षतानि यस्मिन् तथोक्तम् । जलविहारेण स्तनाद्यनुलिप्तचन्दनादे
रपगतत्वेनेनि भावः । तथाविधम् । समानः पतिः यस्याः । कृतसपत्नि
काया: सहप्रियायाः । 'नित्यं सपत्न्यादिषु' इति निपातनात्सभावः
नकारादेशो ङीप्च। तस्याः वपुः शरीरम् । कर्म । चिरम् चिरात्
बहुकालम् । निर्गताः निमेषाः नेत्रनिमीलनानि यस्मिन् कर्मणि तथे
वेति संभावना । पश्यति आलोकयति पश्यन्तीः प्रिया अनादृत्य प्रत्यक्ष
• षष्ठी चानादर ' इति षष्ठी । काचित् तासु
 
यति सतीत्यर्थः ।
 
कान नायिका । विहृतिः विहारः क्रीडोपक्रम: । 'विहारस्तु परि
 
क्रमः
 
इत्यमरः । स एव कैतवम् व्याज वस्तुतो न तथा । अन्यो
प्रवृत्त्रादिति भावः । तेन । प्रहितम् निक्षिप्तम् अञ्जलिना
परिक्षिप्तम् जलम् यया सा । सुष्ठु जलप्रक्षेपणं कृतवतीत्यर्थः ।