This page has not been fully proofread.

षष्ठसर्ग:
 
सलिलहतिभियापवृत्तगात्र्याः
प्रचलित वेण्यपराङ्गकं परस्याः ।
धरणिपतिरमंस्त मीनकेतोः
 
फ़लकमुपाहितखड्ग वल्लरीकम् ॥
 

 
59
 
सलिलहतिः जलाभि
 
सलिलेति ॥ धरणिपति: कम्पराजः ।
घातः तस्मात् भी: तज्जनितभयम् । तेन । अपवृत्तम् परावृत्तम्
पश्चाद्विनिवृत्तम् गात्रम् शरीरम् यस्याः तस्याः । उद्वेलं प्रवृत्तं जल
सेचनमसहमाना पश्चाद्विनिवृत्ता सतीत्यर्थ: । • अङ्गगात्रकण्ठेभ्यो
वक्तव्य' मिति ङीष् । तस्याः । परस्या अन्यस्याः प्रचलिता अत्यन्तं
कम्पमाना शिरोविधूननादिनेत्यर्थ: । वेणी प्रवेणी केशबन्ध: यस्मिन् ।
'वेणी सेतुप्रवाहयोः ॥ देवताडे केशबन्धे ' इति हैमः । तादृशम् अप
राङ्गकम् अपराङ्गमेव अपराङ्गकम् । स्वार्थे कः । शरीरस्य पश्चा
द्भागम् । कर्म । उपाहिता निक्षिप्ता खङ्गवल्लरी असिलता यस्मिन्
'शेषाद्विभाषे' ति कप् । 'न कपि' इति न ह्रस्वः । मीनकेतोः
मन्मथस्य फलकम् खेटकम् चर्म बाणादिनिवारणसाधनम् तदिवेत्युत्प्रेक्षा ।
तथा अमंस्त अबुध्यत । अत्यन्तं रागोद्दीपकं तस्यैतदभूदित्यर्थः ।
नायकाभिमुखं काचिन्नायिका जलसेचनेन क्रीडन्ती । ज़वेन जलमुपरि
क्षिपति प्रिये तद्वेगं सोढुमशक्नुवती पश्चाद्विवर्तितायां तस्यां तस्याः
पृष्ठभागः तस्मिन् लम्बमाना दीर्घा नीलवर्णा वेणी च नायकस्यात्यन्तं मोहं..
•जनयामासतुः । अतस्तादृक्पृष्ठभागे सन्निहितखङ्गवल्लरीकमन्मथफलक
तादात्म्यसंभावनेति द्रव्योत्प्रेक्षेयम् सा च वाचकाप्रयोगाद् गया ॥
 
क्रमावसरे स्थातव्यः । अत्र तु लेखकप्रमादादिव प्रतिभाति
 
चरणविलुठितो विलङ्घितोरुः
परिगतनीविरवाप्तनाभिचक्रः ।
 
391
 
नायिकानां जलप्रवेशो वर्ण्यते - अत एवायं श्लोको जलक्रीडोप
 
-