This page has not been fully proofread.

388
 
मधुराविजये
 
प्लव: उडुपम्
उडुपं तु प्लव: कोल: ' इत्यमरः । सः येन ।
तथोक्तः । प्लववत् स्वहस्तद्वन्द्व संस्थाप्य तत्त्र प्रियाः शाययित्वेत्यर्थः ।
परिचलिते - सर्वतश्चलनं प्राप्ती ऊरू सक्थिनी जानूपरिभागौ नितम्ब
मण्डलम् चक्राकारः स्त्रीकट्या: पश्चाद्भागः ( तादृशे ) ते यासु तासाम् ।
ऊरू नितम्बमण्डलं च सुष्ठु कम्पयन्तीनामित्यर्थः ।
वारत्वादिति भावः । प्रियाणाम् स्ववल्लभानाम् ।
 
प्लवनस्य तदा
प्लव: उडुपम्
 
जलतरणसाधनविशेषः। तेन साधनभूतेन जलगमनम् उदकप्लवनम् ।
 
तदेव छलम् व्याज: वस्तुतो न तथेत्यर्थः ।
नेत्यर्थः । सुरतगुरुः रतिक्रीडोपदेशे
 
आचार्यभूतस्सन् ।
 
तस्मात् । तद्वयपदेशे
पुरुषायितम्
 
पुरुषवदाचरणं स्त्रियाः अस्मिन्निति पुरुषशब्दात् कर्तृक्यताद्भावे
ते आर्शआद्यच् । उपरतिः तस्य उपदेशः बोधनम् । तम् अकार्षीत्
अकरोत् तमुपदिदेशेवेति संभावना । पुरुषायितेऽपि वल्लभोपरि स्थित्वा
क्रीडन्तीषु स्त्रीषु नितम्बमण्डलस्य तदूर्वोश्च संचालनं दृश्यत इत्येवं
संभावना । वाचकाप्रयोगाच्च गम्योत्प्रेक्षेयम् । छलशब्देन जलगमनस्य
मिथ्यात्वप्रतिपादनम् । तेन च तस्मिन् पुरुषायितत्व संभावनाईतासंपादन
 
च जातमिति कैतवापह्न त्या संकरोऽस्याः ॥
 
(
 
नायकस्य जलोत्क्षेपणं कथ्यते
 
-
 
अवनिपतिरसिक्त दीर्घिक़ायां
 
मुखक़मलं सलिलेन साभिलाषम् ।
किमपि समधिकार्द्रपक्ष्मलेख
वदनमभूदरुणेक्षणं परस्याः ॥
 
57 ॥
 
: अवनिपतिरिति ॥ दीर्घिकायाम् क्रीडासरसि । अवनिपतिः
कम्पन । सलिलेन जलेन स्वहस्तघृतेनेत्यर्थः । अभिलाषेण इच्छ्या सहितम्
साभिलाषम् सानुरागमित्यर्थः । मुखकमलम् मुखपद्मम् कस्याश्चिदित्यर्थः ।