This page has not been fully proofread.

षष्ठ सर्गः
 
387
 
अविरतेति ॥ अविरतम् अविश्रान्तम् यथा भवति तथा अवि
च्छिन्नमित्यर्थः । अवनीशः कम्पराजः तस्य हस्तौ करौ ताभ्याम्
मुक्तानि त्यक्तानि क्षिप्तानीत्यर्थः । तथाविधानि प्रविततानि बहु
विस्तृतानि अनन्तानि दीर्घाणि आयतानि पुङ्खानुपुङ्खन्यायेन सुदीर्घं
यथा भवति तथा प्रवाहाकारेण प्रसृतानि । पयांसि जलानि । कॠणि ।
चकोरलोचनानाम् चकोराक्षीणाम् राजस्त्रियाम् मनसि चित्तेषु । जाता
वेकवचनम् ।
मदन: मन्मथः स एव सुभटः शोभनो वीरः महा
वीर: लोकैक़वीर इत्यर्थः । ' भटस्स्यात्पुंसि वीरे च विशेष पाम
रस्य च' इति मेदिनी । तस्य वारुणानि वरुणदेवताकानि । सास्य
देवतेत्यण् ।
तानि अस्त्राणि मन्त्रविशेषाभिमन्त्रिता : बाणाः तेषाम्
शङ्काम् त इति भ्रान्तिम् चकार अकरोत् उत्पादयामासेत्यर्थः ।
वारुणास्त्रं प्रयुक्तं सद्वीरेण जलप्रवाहानविच्छिन्नान् निष्पाद्य जल
मयानि जन्ति करोति । तद्वदेव कम्पराजप्रविमुक्तानि जलान्यविश्रान्त
तथा प्रसृतानि भूत्वा ताः स्त्री: निमज्जयन्ति स्वप्रवाहेषु । अत
स्तासां वारुणास्त्र भ्रान्तिस्संजाता । स्वाकारेण मन्मथसदृश: कम्पन
इति स
इत्र लोकैकवीर इति मन्मथबाणा इवैतत्प्रयुक्तजलानि
रागोद्दीपकानि भवन्तीति मदनसुभटभ्रान्तिर्बभूवास्मिन्नित्य लङ्कारो
 
भ्रान्तिमान् ॥
 
जलक्रीडासु प्लवनं वर्णयति –
 
करयुगकलितप्लवः प्रियाणां
परिचलितोरुनितम्बमण्डलानाम् ।
[ प्लवजलगम ] नच्छलादकार्षी
त्सुरतगुरुः पुरुषायितोपदेशम् ॥
 
561
 
करयुगेति ॥ करयुग़म् हस्तद्वन्द्वम् तेन कलितः परिकल्पितः