This page has not been fully proofread.

षष्ठ सर्ग:
 
नाधिकरण्यमर्जयामासेति गम्यते । एषा वर्णना स्मारयति कालिदासीयं
पद्यम् । " चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्मश्रिता चान्द्रमसीमभि
ख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः
इति ।
अत्र 'शशिमुखी' ति विशेषणं नायिकायाश्चन्द्रश्रान्ति श्लेष
भित्त्याऽभिव्यञ्जयन्ती तथा नेति सखीवचने हेतुतासमर्थनं करोतीति
काव्यलिङ्गमलङ्कारः । स च वाच्यसिद्ध्यङ्गतया पद्ममुखी सेति गम
यन् पद्माभेदं च वक्त्रे द्योतयन्नतिशयोक्ति ध्वनयति भ्रान्तेः परि
पोषकतया ॥
 
'
 
किमिति मृदुपदं प्रयासि मुग्धे
ननु कितवस्सह याति कामिनीभिः ।
नवकुसुमरजोऽन्धकारबन्धै
रभिसरणार्हमिदं वनं दिवापि ॥
 
11
 
383
 
13
 
किमितीति ॥ कां चिन्नायिकां मुग्धां प्रति काचिन्नायिका
विदग्धा भाषते - हे मुग्धे मूढ़े । नायकस्य रहस्यवृत्तं किमपि न
जानातीत्येवमुच्यते । कितवः धूर्त: शठ: (गूढविप्रियायकः) । कितव
शब्दमस्मिन्नर्थे भगवान् व्यासः प्रायुङ्क्त । "पतिसुतान्वयभ्रातृबान्धवा
नविलङ्घ्य ते ह्यच्युता गताः । गतिविदस्तवोद्गीतमोहिता: कितव
योषितः कस्त्यजेन्निशि " इति (अत्र 'हे कितव
- शठ' इति श्रीधर
स्वामी) । कामिनीभिः स्वकान्ताभिः कामुकीभिस्सहेत्यर्थः । अनेन
स्मरातत्वं तेन तासामभिसरणं च द्योत्यते । याति गच्छतिखलु । इदं
• प्रमादस्थानमिति नावबुध्यसे त्वमिति भावः । किमिति किं भविष्य
तीति मत्वेत्यर्थः । किंमालोच्येति यावत् ।
यस्मिन यानकर्मणि तथेत्यर्थः । अतिमन्दगमनेनेति यावत् । प्राि
गच्छसि ( इति पृच्छति ) आपने महत्युपद्रवेऽसंभ्रान्ता तिष्ठसि । इदं
वाकालः, अभिसरणस्य नैवावकाशइति