This page has not been fully proofread.

382
 
मधुराविजये
 
शशिमुखि शशिकान्तकुट्टिमेषु
स्खलनभिया न पदात्पदं प्रयासि ।
 
इयमिह वदनानुविम्बराजि
स्तव न पुनर्नवपङ्कजोपहारः ॥
 
11
 
10 11
 
शशिमुखीति ॥ शशिकान्तकुट्टिमेषु चन्द्रकान्तमणिनिबद्धभूमिषु ।
स्खलनम् चलनम् । तस्मानी: तत्कृतं भयम् । स्वमुखचन्द्रेण चन्द्र
कान्ताः जलं स्रवन्ति, तत्र पदस्खलनं
 
स्वस्य स्यादिति त्रासेनेति
 
भावः । पदात् पदादनन्तरम् पदं पदम् । निश्चिप्येत्यव्याहारः ।
शनैरन्यवाद
 
भूमौ एकं पादम् निक्षिप्य गाढं तेन भूमिमवलम्ब्य
निक्षेपणेनेत्यर्थः । तृणजलूकान्यायेनेति भावः । न प्रयासि न गच्छसीति
काकुः । एवमेवायासीति भावः । शशिमुखि चन्द्रवदने चन्द्रसदृशमुखि
न चन्द्ररूपमुखि (यतो भवती चन्द्रमुखी ( चन्द्र इव मुखं यस्या
 
इति
 
एव मुखं यस्या
 
इति विग्रहः ) न चन्द्रमुखी ( चन्द्र
विग्रहः ) ( अतो न भेतव्यम् ।
द्रवन्ति । नतु चन्द्रसदृशेन तव मुखेनेति भावः ।
मुखीति यदुक्तं संख्या तन्नायिकया प्रतिषिध्य
 
माना पद्मराजिरित्यर्थः ।
 
पूजाद्रव्याणि तानि मत्पादस्पृष्टानि भवेयुरिति धिया ममेदमलसगमन
मिति प्रत्युत्तरिता सख्येवं संभाषते - इह अस्यां भूमौ । इयं दृश्य
बिम्बानि प्रतिबिम्बा: तेषाम् राजि: श्रेणिः । पङ्कजोपहारः - पङ्कजा
तव भवत्याः वदनानाम् मुखानाम् अनु
नाम् पद्मानाम् उपहार: बलि: पूजाद्रव्यम् देवपूजार्थमानीतानि पद्मानि ।
पुनरितित्वर्थे । तादृशपद्मानि तु न नैव न भवन्त्येवेत्यर्थ: । अयं भावः ।
त्वं पद्ममुखी । तव वक्त्रपद्मान्यत्र प्रतिफलितानि । तान्येव तव पद्म
समाधत्ते । भ्रान्तिवर्णनेनानेन मुखमस्याश्चन्द्रश्रियः पद्मश्रियश्च
नात्र पूजार्थमानीतानि पद्मानि वर्तन्ते इति
 
भ्रान्ति जनयन्ति ।
 
· चन्द्रकान्ताः चन्द्रकिरणप्रसरणेनैव
 
अत्र पूर्वं शशि
पद्मान्यत्र दृश्यन्ते