This page has not been fully proofread.

62)
 
षष्ठ सर्ग:
 
"
 
सः कर्ता । करनखरा हस्तनखा पुनर्भवः कररुहो नखोऽस्त्री
नखरोऽस्त्रियाम्' इत्यमरः । तेषाम् मरीचयः कान्तयः तेषाम् मञ्ज
रीभिः गुच्छे: पुज्जैरित्यर्थः । तै तत्कृतेत्यर्थ: । जलशङ्कया उदक
भ्रान्त्या स्वकरनखेभ्य: प्रसृतासु धवलकान्तिषु कृतजलभ्रान्तिस्सन्नि
त्यर्थ: । अतएव हृतम् भग्नम् 'मनोहतः प्रतिहतः प्रतिबद्धो हतश्च
सः इत्यमरः । तादृक् हृदयम् यस्य । नष्टमनाः विवश इत्यर्थः ।
तृषार्तत्वादप्येवमुक्तिः । ( ' हृतहृदय ' इति तु युक्तमिव प्रतिभाति ।
हृतहृदय : अपहृतमना: आकृष्टचित्तः परायत्त इत्यर्थ: । ) अनुपतति
स्वाम् अनुसरति अनुगच्छति । एकवारम् सकृत् विलोकय पश्य
पश्चाद्दष्टि प्रसारयेत्यर्थ: । एकवारमित्यनेन प्रियमुपगन्तुं सोत्कण्ठा
सेति सूच्यते । तथा चेतिक भवतीत्यत आह - सः हरिणः विलक्ष:
लज्जितः। नेत्रसौन्दर्येणाहमेव गरीयानिति गवितो मृगस्त्वदालोकालोकनेन
स्वगर्वं सर्वं त्यक्त्वा संजातलज्जो भवेदिति भावः । एणाक्षीति व्यव
हारस्त्वस्यास्तदतिरिक्तोपमानस्य समुचितस्य लोके कुत्राप्यदर्शनादेवेत्यव
गन्तव्यम् । तथाविधस्सन् । नियतम् अवश्यम् । निवर्तते परावर्तते ।
पराजयेन लज्जितस्य मनस्विनो विजेतुर्मुखं द्रष्टुं वा तस्य स्वमुखं
दर्शयितुं वा नैवावकाश इति भावः । नियतमित्यनेन नायिकाया
वञ्चनापाटवं व्यज्यते । अयं भावः । कम्पराजमुपगन्तुं सोत्सुके द्वे
नायिके प्रस्थिते । तत्र चतुरैका नायिका मुग्धामन्यां तत्सौन्दर्याति
रायप्रस्तुत्या वशीकृत्य सव्याजमेवं पश्चादालोकनपरां तां कृत्वा स्वयं
पुरतो धावनेन प्रियसमागममनुभवितुं यतते । अत्र नखमरीचिषु
धावल्यस्य कविसमयसिद्धत्वेन ' मञ्जरीभि ' रित्यतस्तावदेकत्र राशी
कृतधवलकान्तिव्याप्ति सम्पाद्य जलप्रवाहसादृश्यसाध
कृता भ्रान्तिरत्नेति भ्रान्तिमानलङ्कारः । गूढोक्तावस्या अङ्गत्यनयो
 
स्संकरः ॥
 
"
 
अत्र प्रियवयस्ययोराप्त सख्योस्संभाषणं प्रस्तौति
 
-
 
381