This page has not been fully proofread.

षष्ठसर्ग:
 
379
 
SA
 
स्वनितम्बस्तनभारवशात्सहजमन्दगमनाच्च त्वरया कम्पराजमनुगन्तु
मपारयन्ती मन्दं गच्छति । मुग्धामेतां काचिद्विदग्धा सौन्दर्यलोलुपः
प्रियः पुरतस्संभावयेत्सुन्दरीमेनामिति तद्गमननिरोधाय तच्छ्रे यस्कामा
हितमुपदिशन्तीव तद्वञ्चनायै कथयति " प्रणयौत्सुक्यादतिवेगेन धावन्तीनां
पुरत: प्रयातानां रमणीनां त्रुटितमुक्ताहारशकलजातैरभितो व्याप्तोऽयं
मार्ग: । मार्गान्तरमन्विष्य मन्दं गच्छ। नोचेद्विपदं लभेथाः " इति ।
एवं तस्याः भीतिमुत्पाद्य तद्गमननिरोधेन स्वाभिलाषा
प्रवृत्ता । इत्थमनयोक्ता च सा ' ताः कथं प्रयाताः ? त्वमनेन मार्गेण
कथं यासी' ति नैव पृच्छति । यथोदितमेव गृह्णाति । अतएवेयं मुग्धा ।
उत्पादयति चेत्थं नैपुणेन स्ववाक्येषु सत्यधियमित्येषा च क्रिया
विदग्धा । अन्यदुद्दिश्य ततोऽन्यथा कथनमित्थमिति गूढोक्तिरलङ्कारः ।
गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यत " इति तल्लक्षणात् ॥
 
नलिनमुखि न बोधय प्रसुप्ता
निह मणिनूपुरशिञ्जितेन हंसान् ।
द्रुतगमन विघातमाचरे
 
नियतममी तव पादपद्मलानाः ॥
 
n 8 n
 
नलिनेति ॥ नलिनम् पद्मम् ( तदिव) मुखम् यस्याः ।
तस्यास्संबुद्धिः । हे पद्मानने इत्यर्थ: । हंसानाम् पद्मवनविहारप्रीति
 
तम्
 
रिति तैरनुगमनमवश्यंभावीति सूचयितुमेवमुक्तिः । इह अस्मिन् प्रदेशे
क्रीडोद्याने । मणिनूपुराणि रत्नखचितानि पादाङ्गदानि तेषाम् शिञ्जि
अव्यक्तमधुरध्वनिः । अतएव हंसकूजितैरस्य साम्यम् । तेन च
तेषां हंसभ्रान्तिस्संगच्छते । भूषणानां तु शिञ्जिनम्' इत्यमरः ।
प्रसुप्तान् गाढ़ निद्राणान् ।
अत्र 'प्रसुप्ता' नित्यनेन गाढं शयि
तानां प्रबोधनं प्रत्यवायायेति तन्न युक्तमिति सूच्यते च । तादृशान् हंसान्
चक्राङ्गान् । 'हंसास्तू श्वेतगरुतश्चकाङ्गा मानसौकसः' इत्यमरः । न
 
(