This page has not been fully proofread.

378
 
मधुराविजये
 
(निगूडतया) सव्याजं श्रव्यैर्वचोभिस्तास्ता
 
वञ्चनायां कृतप्रयत्नाः
स्ताभिस्ताभिस्संभाषितुं प्रेवृत्ता इति तात्पर्यार्थः ॥
 
सव्याजं तेषां भाषणप्रकारमेव कथयति
 
वरतनु परतः प्रयाहि मन्दं
हरिणदृशां पुरतः प्रवायिनीनाम् ।
पथि गतिरयशीर्णहारमुक्ता
मणिगणशर्करिले पदं न कुर्याः ॥
 
"
 
11 7 11
 
वरतन्विति ॥ वरा श्रेष्ठा तनुः शरीरम् यस्याः तथोक्ता ।
तस्यास्संबुद्धिः। हेसुन्दराङ्गि इत्यर्थः । सौन्दर्यलुब्धो नायकः एतां पुरत
स्संभावयेदिति तद्वञ्चनाप्रवृत्तिस्स्वस्येति सूचयत्येवंकथनेन ।
 
परतः
 
त्वनेनैव पथा प्रयामि त्वमकुशला अहं तु कुशला गन्तुमेतादृशे
अन्यमार्गात् नूतनमार्गमन्विष्य तत इत्यर्थः । प्रयाहि आगच्छ । अहं
मार्गे इति भावः । मन्दम् शनः नतु त्वरया मार्ग़ सम्यग्वीक्ष्ये
अनेन मन्दगमन विधानेनैतां वञ्चयत्येषा । तत्र कारणं ब्रूते
अग्रे त्वत्त इत्यर्थ: । प्रयायिनीनाम् गच्छन्तीनाम्
दृशाम् मृगाक्षीणाम् गतिरयः गमनवेगः
 
त्यर्थः ।
 
पुरतः
 
प्रियसमागमसंभ्रमसंभूतः
 
तेन शीर्णा: शिथिला: त्रुटिता: हारा: मुक्तासराः तेषाम् मुक्तागण
मौक्तिकजालम् । तेन शर्करिले - शर्कग ( मुक्ता ) खण्डा: 'शर्करा
खण्डविकृतावुपलाकर्करांशयोः । शर्करान्वितदेशेऽपि रुग्भेदेशकले
च' इति मेदिनी । सोऽस्मिन्नस्तीति मत्वर्थे ' देशे लुबिलचौ चे'ति
 
पथि
 
मार्गे पदम्
 
इलच् । तथाविधे मुक्ताखण्डसंकीर्णे इत्यर्थः ।
पादम् न कुर्या: न कुरु न निक्षिपेत्यर्थ: । पदनिक्षेपे शिलाकुट्ट
बाधा भवेदिति भावः । श्रेयस्कामेव स्वाभिलषितसिद्धिसाधनाय सव्याज
मेवमियं भाषत इत्यवगन्तव्यम् । अत्रेदं तत्त्वम् । काचित्सुन्दराङ्गा
 
-