This page has not been fully proofread.

षष्ठसर्ग:
 
विविधविलसितै विलासिनीना
मसितसितारुणकान्तिभिः कटाक्षैः ।
 
कुवलयकुमुदारविन्दमाला
खचितमिवामलमम्बरं बभासे ॥
 
375
 
"
 
"
 
विविधेति ॥ विलासिनीनाम् सुन्दरीणाम् ( प्रकृतानाम् )
विविधानि नैकविधानि विलसितानि विलासा: । " तात्कालिको
विकारस्स्याहिलासो दयितेक्षणे " इति लक्षणलक्षिताः । भावे क्तः ।
तानि येषु तैः । अतएव असिता: श्यामा: सिताः धवलाः अरुणाः
रक्ताः कान्तयः येषु तैः । सुन्दरीणां दृष्टिषु नैल्यम्, धवलता,
आरुण्यं च कविभिर्वर्ण्यते । कनीनिका नीलेति
नैल्यम्, तत्प्रान्त
प्रदेशो धवल इति धावल्यम् । पद्मिनीजातिस्त्रीणां नेत्रेष्वरुणरेखा
वर्तन्त इत्यारुण्यं च तथा वर्णने हेतुः । पद्मिनीलक्षणं त्वेवमुक्तम् ।
 
चकितमृगद्गाभे प्रान्तरक्तं च नेत्रे ... धवलकुसुमवासोवल्लभा
पद्मिनी स्यात् " इति । तादृशैः कटाक्षैः अपाङ्गवीक्षणै: ' कटाक्षोऽ
पाङ्गदर्शने ' इत्यमरः । अम्बरम् आकाश:
इति गम्यते ।
 
दिशाङ्गनायाः केशपाश
 
कर्ता । कुबलयानि नीलोत्पलानि । अत एव
 
'श्यामं शितिकण्ठनीलं कुवलयमिन्दीवरं च नीलाब्जम्' इति नाम
माला । कुमुदानि शुक्लोत्पलानि । ' सिते कुमुदकैरवे ' इत्यमरः । अर
विन्दानि रक्तपद्मानि 'सामान्यग्रहणे पद्मानां रक्त ' तेति कविसमयः ।
अतएव " रक्तवर्ण प्रस्तावे- 'कमलं दाडिमीपुष्पं ... बिम्ब ' मित्याह
 
देवेशः । तैः तेषाम् माला: पुष्पमाल्यानि 'माल्यं मालास्रजे मुध्नि '
इत्यमरः । तैः । खचितम् ग्रथितम् ।
 
इवेति संभावनायाम् । बभासे
 
रराज़ । भातृ दीप्तौ लिट् । राजदाराः कम्पराजमनुगतास्सानुराग़:
कटाक्षवीक्षणैस्सविलासं तं यथा वा गच्छतीति इतस्ततः पश्यन्ति ।
चित्रवर्णास्तद्द ष्टयस्तदानीमाकाशमाच्छादयन्ति । तदाच्छादनेन चित्रवर्णं