मधुराविजयम् /51
This page has not been fully proofread.
वर्णनासंविधानम्
वर्णनासंविधानमपि परामृगामः । अत्र वर्णिता वर्णना इत्थं परि
गणितुं शक्यन्ते । राजवर्णना• पुरवर्णना• दौहृदवर्णना• कुमारजनन
वर्णना ( नायक ) बाल्यवर्णना• तद्यौवनवर्णना (विवाहवर्णना),
यात्रावर्णना, अश्वराजवर्णना, ऋतुवर्णना, वसन्तोत्सववर्णना, पुष्पापचाय
वर्णना, जलक्रीडावर्णना, सूर्यास्तमयवर्णना, चन्द्रोदयवर्णना, यवनदुर्नय
वर्णना, युद्धवर्णना– इति ।
20
राजवर्णना
इयं रामायणे रामवर्णनेन, रघुवंशस्थ
दिलीपवर्णनेन चं साम्यं वहति । कादम्बर्यादौ वर्णितशूद्रकादिप्रकथ
नैव सादृश्यं सम्पादयति तत्र तत्र । कल्पनाचातुरी तु प्रतिभा
समुल्लसिता प्रवहति महाप्रवाह इव महावेगेन ॥
——
U
पुरवर्णना राजवर्णनाया अनन्तरमेव प्रवृत्तेयं वर्णना ।
रामायणे तदनुसारिषु भट्टिकाव्यादिषु केषुचिदेवेत्थं प्रवृत्ता पुरवर्णना ।
इतरे (संस्कृतकाव्यजाते) राजवर्णनया नैवानन्तर्यसंबन्धमनुभवति पुर
वर्णना । कानिचित्काव्यानि पुरवर्णनां विनैव परिसमापितानि ।
कुत्रापि प्रस्तावनावशात्सा वर्ण्यते च । रघौ दिलीपः प्रकथितः ।
नह्ययोध्या वर्णिता । कुमारसंभवे हिमवानारम्भे प्रस्तुतः । ओषधि
प्रस्थानमस्य राजधानी । नैव सा तत्र वर्ण्यते । अवर्णयच्चामुं कवि
ष्षष्ठे सर्गे । शिशुपालवधेऽप्येवमेव राजा श्रीकृष्णो वर्णितः
काव्यारम्भे । तृतीये खलु सर्गे द्वारकापुरी तावदागन्तुकतया
वर्णिता । नैषधे नलवर्णनया काव्यमारभ्यते । निषधप्रशंसा तुण
चक्षुःपथमारोहति । आन्ध्रकविभिरान्ध्रप्रबन्धेषु मिलित्वैवैतवयं वर्ण्यत
इत्यान्ध्रप्रबन्धसंप्रदायमनुसरतीवेयम् । श्लिष्टरूपकादिभिः कल्पनाचमत्कृ
तिभिर्वर्णनेयं प्रायेण कादम्बरीं शिशुपालवधादींश्र्वानुसार ।