This page has not been fully proofread.

श्रीः
 
मधुराविजयम्
भावप्रकाशिकाख्यव्याख्यासमेतम्
पष्ठसर्ग:
 
"(
 
त्सवाः ॥
 
'नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम् । उद्यानसलिलक्रीडामधुपानरतो
एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते । एषामष्टा
दशानां यैः कैश्चिदूनमपीष्यते " इति लक्षणकर्तारः । एतावदवधि
नगरकुमारोदय मन्त्रप्रयाणयुद्धर्तुरतोत्सववर्णनास्तत्र तत्र कीर्तिताः । इदानी
मस्मिन् सर्गे वसन्तादिऋतुगुणप्रादुर्भावेन रमणीयान्यासन् प्रमदवना
नीति तद्विहारस्सलिलक्रीडा च देवपूजाङ्गत्वेन वये॑ते ।
विहार: प्रकथ्यते –
 
तत्र वन
 
अथ वरतनुभिस्समं कदाचि
द्विरचयितुं कुसुमापचायलीलाम् ।
प्रमदवनममर्त्यकामिनीभि
 
हरिरिव नन्दनमासदन्नरेन्द्रः ॥
 
n 1 u
 
अति ॥ अथ अनन्तरम् वसन्तोत्सवकरणेन मन्मथानुग्रह
संपादनोत्तरकाले इत्यर्थः । नरेन्द्र राजा कम्पनः । कदाचित् एकदा
विहारस्य समुचिते समये संप्राप्ते इत्यर्थः । कुसुमानाम् पुष्पाणाम्
अपचायः हस्तेन लवनम् । 'हस्तादाने चेरस्तेय' इति घन् । अत्र
"हस्तादानग्रहणेन प्रत्यासत्तिरादेयस्य लक्ष्यते " इति काशिका । तस्य
लीलाम् व्यापारम् । विरचयितुम् आचरतुम् वरतनुभिः वराः अत्यन्त
मुत्कृष्टाः तनवः शरीराणि यासाम् ताभिः । वरवणिनीभिरिति भावः ।