This page has not been fully proofread.

970
 
मधुराविजये
 
समुचिततया तत्तदृतूत्पन्नानां तेषां तेषामनुभवः ते तथोक्ते। तयोः
वर्णनम् प्राधान्येन कीर्तनम् । अन्यानि ॠत्वादिवर्णनान्येतत्प्रयोजन
साधनायैव प्रवृत्तानीति न तेषां पृथक्त्वेन कथनम्, राज्यपालनं तु
 
व तथेति तस्य भिन्नतया परिगणनं चेति भावः । नामेति प्रसिद्धौ ।
ताभ्यां सुविदित इत्यर्थः । तादृशः । पञ्चमः पश्चानां पूरणपश्च
संख्याप्तरकः । पूरणे डट् । नान्तत्वेन मट् । (सर्गः इति समाप्तः ।)
इति तु विशेषः ॥
 
·
 
इति
 
श्रीपरमेश्वरीकृपासमुपलब्धशास्त्रसाहिती वैदुष्य
 
'साहित्यालङ्कार' 'विद्वत्कवीशान '
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
' काव्यकलानिधि' 'महीनूरमहाराजास्थानमहाविद्वत्कवि
 
श्रीचिदम्बरशास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्यव्याख्यया समलङ्कृतायाम,
श्रीगङ्गादेव्याः कृतौ मधुराविजये महाकाव्ये
राज्यपरिपालनऋतूपभोगवर्णनं नाम
 
पञ्चमसर्गः
 
}