मधुराविजयम् /506
This page has not been fully proofread.
पञ्चम सर्गः
।
ण्ठिताभिः संजातौत्सुक्याभिः । अनिशमपि तत्क्रीडानुभूतिमभिलषन्तीभि
रिति भावः । अनेनैकतैवानुरागः परिहृतः । तादृशीभिः सुतनुभिः
सुन्दराङ्गीभिः स्वप्रियाभि। सहार्थे तृतीया । ताभिस्साकमित्यर्थः ।
तृतीयम् त्रिसंख्यापूरकम् धर्मार्थकाममोक्षेषु काममित्यर्थः। "त्रिवर्गो
धर्मकामार्थैश्चतुर्वर्ग़स्समोक्षकै " रिति पुरुषार्थविवरणम् । 'त्रेस्संप्रसारणं '
चेति त्रयाणां पूरण इत्यर्थे डटोऽपवादस्तीयस्संप्रसारणं च । तम् ।
कृतकृत्यम् चरितार्थम् लब्धप्रयोजनम् । एतावत्कालस्य समुचितस्य
स्वालम्बनस्य महापुरुषरूपस्य पुराकृतभाग्यविशेषैर्यथाकथमपि समुप
लब्ध्या स्वनाम्नोऽर्थवत्तां सम्पाद्येति भावः । तथाविधम् व्यतनुत
अकरोत् । विपूर्वात् तनु विस्तारे - इत्यस्माल्लङ् । ऋतुकालोचि
तान् भोगान् यथोचितं स्वप्रियाभिर्गाढानुरक्ताभिस्सह रसज्ञशिरोमणि
स्सोऽन्वभूदिति संक्षेपः । वृत्तविपरिणामोऽयं सर्गान्तं सूचयति ।
वृत्तमिदं मालिनी । ननमयययुतेयं मालिनी भोगलोकैः" इति
"6
तल्लक्षणात् ॥
इति
श्रीगङ्गादेव्या विरचिते
मधुराविजयनाम्नि वीरकम्परायचरिते
कम्परायराज्यपरिपालनऋतूपभोगवर्णनं नाम
पञ्चमसर्गः
368
इतीति ॥ शेषं पूर्ववत् । कम्पराजस्य कम्पनप्रभोः। कर्तरि
षष्ठी । तत्कृते इत्यर्थः । तथाभूते राज्यपरिपालनम् काश्वीराज्य
रक्षणम् ऋतूपभोगः
ऋतूनाम् ग्रीष्मादीनां षढतूनाम् उपभोगः
-