This page has not been fully proofread.

मधुराविजये
 
कुङ्कमा इति यावत् । क्षितिपतिम् भूपतिम् समभिताडयितुम्
संप्रहर्तुम् धियम् बुद्धिम् अहमस्योपरि कुकमं विक्षिपामीति मतिम्
आदधौ चकार तादृशी बुद्धिः यदा जातेत्यर्थः । " कृतौ करोत्या
वहति विदधात्यादधाति च " इति भट्टमल्लः । सपदि सद्यः तस्मिन्नेव
काले । 'सद्यस्सपदि तत्क्षणे ' इत्यमरः । धर्मपय: स्वेदजलम् तस्य
प्रसरेण व्याप्त्या स्वप्रियस्मरणमात्रसंजात रागोद्भ तस्वेदोद्गमातिशयेन
तम् स्वधृतकुङ्कुममुष्टिम् विगलितम्
विस्रस्तम् विभ्रष्टम् न विवेद नावबुध्यत । आनन्दपारवश्येन मनो
वृत्तीनां प्रतिबद्धत्वादिति भावः । अनेन प्रलयो नाम सात्त्विकभाव
स्सूचितः । " प्रलयस्सुखदुःखाद्यैर्गाढमिन्द्रियमूर्हनम् " इति तल्लक्षणात् ।
सपदीत्यनेन कार्यकारणयोः पौर्वापर्यविपर्यासरूपातिशयोक्तिरलङ्कारः ॥
 
सात्त्विकभावेनेति यावत् ।
 
ऋतूचितभोगोपवर्णनेन साकं सर्गमिममुपसंहरति कवयित्री
 
इति समुचिताभिश्चातुरीभिविशेषान्
ऋतुषु समुपलभ्यान्निविशन्निविशङ्कम् ।
सुतनुभिरवियोगोत्कण्ठिताभिस्तृतीयं
व्यतनुत पुरुषार्थं कम्पराजः कृतार्थम् ॥
 
इतीति ॥ कम्पराज: । इति इत्थम् अनेन प्रकारेण पूर्वमुक्त
नेत्यर्थः । ऋतुषु ग्रीष्मादिषु षट्सु ऋतुषु । समुपलभ्यान् प्राप्तव्यान्
ऋतुलिङ्गानीत्यर्थः । समुचिताभिः देशकालानुरूपाभिः । चातुरीभिः
सम्यगनुभोग्यान् । विशेषान् इतरव्यावर्तकान् विशिष्टानि तानि तानि
 
कौशलै: प्रयत्नमन्तरैव यथा
 
स्वानुभवयोग्यानि
 
रुपाय विशेष रित्यर्थः । नित्रिशङ्कम् यथेच्छम् तत्परत्वेनेत्यर्थः । अन्य
भवन्ति तथाविधं
आभासत्वप्रसङ्गादिति भावः । निविशन् अनुभवन् ।

 
अवियोगः
 
प्रियेण सह अपृथस्थितिः तेन सहस्थितिरिति यावत् । तत्र उत्क
 
368
 
11
 
76 11
 
2