This page has not been fully proofread.

364
 
मधुराविजये
 
मदनबेरनिभं निभृतं पुरः
क्षितिपति कृतचन्दनचचिकाः ।
 
अधिकघर्मपयोभिरवागम
 
न्मृगदृशो विलसत्पुलकैः करैः ॥
 
अग्रभागे
 
मदनेति ॥ मृगदृशः एणाक्ष्यः राजदारा । पुरः
निभृतम् निश्चलम् । अतएव मदनबेरम् मन्मथप्रतिमा तेन सदृश:
तथोक्तः । तम् भक्तिपारवश्याच्चेष्टादिराहित्येन द्वितीयमन्मथप्रतिमेव
 
तत्र स्थितमिति भावः ।
 
निभा ' मिति
मिति संस्कार: । क्षितिपतिम् राजानम्
 
मातृकापाठः । ' निभ '
स्वभर्तारम् ।
एकापि
 
Pi
 
द्वितीया विषयभेदाद्भिद्यते । कारकाणि च विवक्षातो भवन्तीत्यधि
करणार्थे द्वितीया । उत्तरार्धेतु कर्मणि। क्षितिपतावित्यर्थः । चन्दन
चचिकाः मलयजानुलेपाः कृताः याभिः ताः । मन्मथधियेति भावः ।
' निष्ठे' ति पूर्वनिपात: । (तथाविधा भूत्वा ) अधिकम् बहुलम् धर्म
पयः स्वेदजलम् येषु तथोक्तैः । अत्यन्तं स्विन्नै रित्यर्थः । अविदितो
ऽप्यग्निस्तत्स्पर्शेन दहत्येवेति न्यायादिति भावः । किञ्च । विलसन्तः
द्योतमाना: बहिः स्फुटं दृश्यमाना: पुलकाः येषु तैः ।
रित्यर्थः । करैः पाणिभिः । हेतुभूतैः । अवागमन् अबुध्यन् ।
कण्ट कितै
पतिमिति कर्म । राजायमित्यजानन्नित्यर्थ: । तदानीं राजपत्न्यश्चन्दन
अर्चया मन्मथं परिचरितुं प्रवृत्तास्तत्र भक्त्यावेशितमनस्कतया नैव
ल्येन सर्वथा तमिव स्थितं क़म्पराजं मन्मथं मत्वा
 
"
 
11 72 ॥
 
...
 
तत्स्पर्शेन सात्त्विकोदयात् स्वभर्तारं तमविदुरिति पिण्डीकृतोर्थः ।
' क्षितिपतिमवागम ' न्निति वाक्यार्थे विशेषणगत्या विलसत्पुलकै
विशेषणे हेतुतया समर्थनीयमर्थं समर्थयत इति काव्यलिङ्गमलङ्कारः
अत्र राजपत्नीषु शृङ्गाररसाङ्गतया प्रवृत्तौ रोमाञ्चस्वेदोद्गमौ मन्मथ