मधुराविजयम् /498
This page has not been fully proofread.
पञ्चमसर्गः
तस्य प्रवाह प्रवाहह्वदविच्छिन्ना प्रवृत्तिः तेन अश्वितः महान् जग
दाराध्य इत्यर्थ: । अञ्चु गतिपूजनयोः क्तः । तादृशः अन्यभृताः
परभृताः कोकिलाः। निजापत्यमेते परैः पोषयन्तीत्येवमुच्यन्ते ।
तेषाम् ध्वनिः पञ्चमाख्यः । अत्र नारदः । " षड्जं रौति मयूरस्तु
गावो नर्दन्ति चर्षभम् । अजाविकौ च गान्धारं कौवो नदति मध्य
मम् ॥ पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं
रौति निषादं रौति कुञ्जर: ' इति । सः कर्ता । पथिकाः पान्थाः तेषाम्
सार्थ: समूह प्रवासिन इत्यर्थ: । तस्मिन् पराक्रमणम् विक्रमणम्
13
स्वशौर्य प्रदर्शनम् तत्र उत्सुकः उद्युक्तः ।
इष्टार्थोद्युक्त उत्सुक़
इत्यमरः । वियोगिमारणे प्रवृत्त इत्यर्थः ।
तथाविध प्रसवकार्मुकः
पुष्पधन्वा मन्मथः तस्य काहलम् वाद्यविशेषः स्वजैत्रयात्रारम्भसूचक
इति भावः । तस्य निस्वनः ध्वनि: स सन्निति रूप्यते ।
( तादृशस्सन् ) । जगत् लोकम् सर्वान् जनान् ' स्याज्जगद्विष्टपे
क्लीबं वायौ ना
,
जङ्गमे त्रिषु ' इति रुद्रः । तत् कर्म । अरञ्ज
6
यत् रञ्जयामास रागयुक्तमकरोत् सर्वेषां रागोद्दीपकोऽभूदिति यावत् ।
प्रियाः परित्यज्य देशान्तरं गच्छन्तीति क्रुधा प्रवासिषु स्वपराक्रमं
दर्शयितुकामः कामो महता प्रयत्नेन तेषु सन्नद्धोऽभवत् । तदारम्भ
सूचका: काहलरवा इव कोकिलालापा अत्यन्तं मोहोद्दीपका अत्रा
सन्निति तात्पर्यार्थः ।
' जगदरञ्जय ' दित्यनेन मन्मथसंरम्भं काहल
ध्वनिभिर्ज्ञात्वा भीताः प्रियाविरहमसहमानाः पान्थास्स्वगृहनग
प्राणेश्वरीभिस्संगतास्सुखमन्वभूवन्निति व्यज्यते ।
मन्मथकाहलध्वनित्वरूपणमिति रूपकमलङ्कारः ॥
अधिगताभिनवार्तवसम्पद
स्तबकसंजनितस्तनविभ्रमाः ।
भ्रमरकामुकसंवननक्षमा
वनलता ललितां दविरे दशाम् ॥
361
अत्र परभृतध्वनिषु
70