This page has not been fully proofread.

360
 
मधुराविजये
 
सः कर्ता । वरवध्वः उत्तमाङ्गनाः पद्मिनीजातिस्त्रिय इत्यर्थः । नायिका
इति च गम्यते । तेषाम् परिरम्भ: आलिङ्गनम् तस्मात्
 
रसः
 
आनन्दः तत्संजातं सुखम् स्यादानन्दथुरानन्दशर्मंशातसुखानि च '
इत्यमरः । तेन उल्लसन्तः प्रकाशमाना; आविर्भूताः ललिता: सुन्दराः
कुट्मला: मुकुलानि । तै कण्टकिता कण्टकवती कृता आनन्दानुभूते
रनुरागादिवशात्संजनितरोमोद्गमरूप सात्विक भाववती कृता । तादृशी
आकृति आकार: अवयवसंस्थानम् यस्य ।
 
तादृक् सन् । 'आलिङ्ग
नात्कुरवक' इति कुरवकस्य सुन्दर्यालिङ्गनमेव दोहदक्रियेति तथा
सद्योधृतमुकुलस्य तस्य कामरसानुभूतिरसिकतैवं कविपीढोक्त्या रूप्यते ।
कुसुमेषुम् मन्मथम् । अचेतनेषु प्राणरहितेषु स्थावरेषु सुखदुःखाद्यनु
भूतिज्ञानरहितेष्वपि । अचेतनस्याप्येवं किमुत चेतनावत्सु सुखदुःखा
द्यनुभवरसिके पिवत्यपिशव्दार्थ । विशृङ्खला निरर्गला

सर्वत्र निनिरोधा वृत्तिः प्रवर्तना यस्य तथोक्तम् ।
 
अप्रतिरोधा
सिकतास्वपि
 
• तैलनिष्पादकमिति भावः । तम् । (तथाविधम्) असूचयत् अबोधयत्
एवं लोकविदितमकरोदित्यर्थः । वसन्तेऽस्मिनुत्तमकान्तालिङ्गनेन रसज्ञः
पुरुष इव कुरवको विकासभावमभजदिति तात्पर्यार्थः । अचेतनस्याप्येवं
क़ामपारवश्ये तदन्येषां का गतिरित्याश्चर्यम् । अद्भुतरसवात्र मुख्यः
 

 
शृङ्गारस्तु तदङ्गम् । अतएवात रसवदलङ्कारः ।
समुज्जीवकतयाऽस्य प्रयोजकमित्येतयोरङ्गाङ्गिभावेन सङ्करः ॥
रूपकं च शृङ्गार
 
(
 
पथिक सार्थप्रराक्रमणोत्सुक
 
प्रसवकार्मुक काहलनिस्वनः ।
मधुरपञ्चमरागरसाश्चितो
जगदरञ्जयदन्यभृतध्वनिः ॥
 
11 69 11
 
रागः राज
 
विश्वः ।
 
पथिकेति ॥ मधुरः श्राव्यः पञ्चमः तदाख्यः
भेदः 'पञ्चमो रागभेदे स्यात्पञ्चानामपि पूरणे' इति