मधुराविजयम् /495
This page has not been fully proofread.
358
मधुराविजये
रभविष्यत्पुण्डरीके किमस्मिन् " इत्यादिना । ( एवं निश्वासरूपेण
तासु निरन्तरस्थितेः ) मरुति वायौ वसन्तकालभवे इत्यर्थः । च समुच्चये
पूर्ववत् । वसन्तस्य पुष्पसमयत्वेन तत्कालसंजातवातानामतिसुरभित्वा
देवमुच्यते । जातिपुष्पाणि विना सर्वाण्यस्मिन् ऋतौ विकसन्तीति
सर्वपुष्पसौगन्ध्यवत्त्वमस्मिन् संभाव्यते । तथापि पद्मसौगन्ध्यस्य बहु
लतया लब्धिरेतस्मिन्नितीत्थमुक्तिः । ( एवं ) सौरभसंक्रमः – सुरभिः
सुगन्धि: तस्य भावः सौरभम् परिमलम् ।
संक्रमः संक्रमणम् क्रमादुत्तरोत्तरोपसर्पणम् । समुचितः यथोचितम् यत्र
यावानुचितस्तत्र तावानेवेत्यर्थः । अजनि अभूदिवेति गम्योत्प्रेक्षा । मुखस्य
मद्येन साकं साक्षात्संबन्धस्तात्कालिक इति सद्यस्कालसौगन्ध्यातिशय
एव तत्र समभवत् । पर्युषिते मद्ये तदलाभात् । वकुलेषु
युवादित्वादण् ।
तस्य
मुखेन
लाभस्तत्र । विमर्दनं विना तत्र सौगन्ध्यातिशयानुपलब्धेः । वायूना
मद्यस्य मद्येन वकुलस्येति साक्षान्मुखसंबन्धाभावात्तदुचिततयैव सौरभ
निश्वासरूपेण मुखे नित्यसान्निध्यम विछिन्नमिति निरतिशाय्यविच्छिन्नं
सौरभं तत्र । एवं मद्यादिसुगन्धानां सर्वेषां कम्पराजवधूमुखसौगन्ध्य
संजातत्वं कविप्रौढोक्त्या सिद्धमिति क्रियोत्प्रेक्षेयम्
कवणितनूपुरकुन्तलकामिनी
चरणपङ्कजसङ्गवशादिव ।
मुखरभृङ्गमशोकमही रुहै
स्तदनुरूपमधार्यत पल्लवम् ॥
11
-
67 11
क्वणितेति ॥ अशोकमहीरुहैः । कर्तृभिः । क्वणितानि संजात
कूजितानि ध्वनितानि नूपुराणि मञ्जीराणि येषु तानि तथोक्तानि ।
"
• तुला कोटिर्मञ्जीरो
नूपुरोऽस्त्रियाम् ' इत्यमरः ।
तथाविधानि
• कुन्तलकामिनीनाम् कर्णाटवनितानाम् चरणपङ्कजानि पादपद्मानि तैः
• सङ्गः संबन्धः तत्संयुक्तता तस्य वशात् अधीनत्वादिवेति संभावना ।