This page has not been fully proofread.

59)
 
पञ्चमसर्गः
 
मधुनि मुग्धदृशां मुखसंस्तवा
त्तदनुषङ्गितया वकुलेषु च ।
मरुति चैतदनुक्षणसौहृदा
त्समुचितोऽजनि सौरभसंक्रमः ॥
 
ताः
 
॥ 66 ॥
 
मुग्धदृशः
 
मधुनीति ॥ मुग्धाः सुन्दरा: दृशः यासां
वामाक्ष्यः कम्पराजस्य प्रियाः । तासाम् मुखसंस्तवात् तन्मुखपरिचयात्
तात्कालिक (स्थिति)संबन्धात् मधुनि मद्ये । तासां पद्मगन्धित्वेन ताभिं
स्तदास्वादात्पद्मसौगन्ध्यं तत्र संक्रान्तमिति भावः । तदनुषङ्गितया
तस्य मधुनः तत्प्रियाभिरुद्वान्तस्येत्यर्थः । तथाविधस्य तस्य अनुषङ्गता
अनुषङ्गः संबन्धः किञ्चिद्दू रतस्संसर्गः स्वाश्रयाश्रयितया संबन्ध: ।
तेन वकुलेषु केसरेषु तत्पुष्पेषु । अथ केसरे वकुलः' इत्यमरः ।
च समुच्चये । मधुन्येव न एतेषु चेत्यर्थः । वकुलसुगन्धस्य पद्म
सौगन्ध्येन तौल्यादेवमुक्तिः । वकुलस्य च दोहदक्रिया कामिनीनां
मुखासव इति तत्संपर्कस्तस्मिन्नासीदिति भावः । दोहदक्रिया श्वेत्थमभि
हिताः
- " अशोकश्चरणाहत्या बकुलो मुखशीधुना । आलिङ्गनात्कुर
वकस्तिलको वीक्षणेन च । करस्पर्शेन माकन्दो मुखरागेण चम्पकः ।
 
"
 
357
 
-
 
सल्लापतः कर्णिकारस्सिन्धुवारो मुखानिलात् । गीत्या प्रियालुनितरां
नमेरुर्हसितेन च " इत्यागमः । अतएव महाकवय
 
आहुः सुव
 
दना वदनासव संभृतस्तदनुवादिगुणः कुसुमोद्गमः । मधुकरैरकरोन्मधु
लोलुपैर्वकुलमाकुलमायतपङ्क्तिभिः '
 
क्षणक्षणम् सर्वदा ( सुहृदयस्य भावः ) सौहृदम् स्नेहः सहवासः
ताभिस्साकं निश्वासरूपेण सहस्थितिः ।
 
तस्मात् तदीयनियतसंसर्गा
 
दित्यर्थः । तत्सुन्दरीनिश्वासानां क्षणक्षणप्रसारित्वेन तासां पद्मसौगन्ध्य
द्धम् - " मधुकरमदिराक्ष्याश्शंस तस्याः प्रवृत्ति वरतनुरथवासौ नैव
वत्त्वाच्चैवमुक्तिः । उत्तमस्त्रीणां निश्वासाः पद्मसौरभवन्त इति प्रसि
दृष्टा त्वया मे । यदि सुरभिमवाप्स्यस्तन्मुखोच्छ्वासगन्धं तव रति
 
"
 
-