मधुराविजयम् /491
This page has not been fully proofread.
354
मधुराविजये
प्रणयरोषः प्रणयकोपः तेन पराङ्मुखाः भर्तुः अननुकूलाः । मानिन्यः
मानवत्यः स्त्रियः तासाम् हृदयम् मनः । तदेव ग्रह इति गम्यते ।
तस्य संवननम् वशक्रिया । मन्त्रतन्त्रादिना ग्रहवशीकरणं वशक्रिये
त्युच्यते । तस्मै तथोक्तन् । प्रियायत्तं कर्तुमिति च गम्यते । अवा
किरन् व्यक्षिपन्निवेति संभावना । अवपूर्वात् कुऋ विक्षेपे - लङ् ।
मलयमारुताः दिक्षु वान्ति । तेन च
सहकाराणां सुगन्धि रजो
दश दिनो व्याप्नोति । तेन सम्मिलिता वायवो नायकेन
प्रणय
कलहमनुभवन्तीनां नायिकानां तत्काले कामोद्दीपका भूत्वा परित्यक्त
मानधनास्ता विधाय नायकवशं नयन्ति तद्वृदयवशीकरणेन ।
एवं संभाव्यते । लोके मान्त्रिका ग्रहग्रस्तस्योपरि मन्त्रितं भस्म विक्षिप्य
ग्रहं वशीकुर्वन्ति । मोचयन्ति च तम् । तद्वदेतेऽपि मलयानिलास्सह
क़ाररजो मानवतीषु विक्षिप्य तद्वृदयं
वशं
नयन्ति मोचयन्ति
मानसर्वस्वं तासाम् । अत एतेऽपि कि मान्त्रिकास्स्युः । दिक्षु विक्षि
प्तमेतैस्सहकाररज कि भस्म स्यात् । तेन वशीकृतं तन्मनः किं
ग्रहस्स्यात् । अन्यथा तत्स्पर्शमात्रेण
तासां
सम्मोहनं च कथं संभवेदिति । अत्र समीरणेषु मान्त्रिकत्
मानपरित्यागो हृदय
आदिषु भस्मत्वाद्यारोपं गमयतीत्येकदेशविवर्तिरूपकम् । अवाकिरन्निवेति
क्रियोत्प्रेक्षायास्समुज्जीत्रकं चैतदित्यनयोरङ्गाङ्गिभावेन संकरः ।
मलयानिलानां विशेषतः प्रचार कविभिर्वर्ण्यते -
" अल्पास्ते
पाटलापरिमलप्राग्भारपाटच्चराः । वान्ति क्लान्तिवितानतानववृताश्री
खण्डशैलानिला: " इति ॥
उपवनेष्वगमन्नुपमेयतां
स्फुटरुचो नवर्कशुककुमलाः ।
मथितपान्थ मृगक्षतजारुण
मंदनकेसरिणः कुटिलैर्नखैः ॥
अत
64 1
नव