मधुराविजयम् /49
This page has not been fully proofread.
18
।
दृश्यमाना प्रौढोक्तिरतीव श्लाघनीया । अलङ्कारास्संघीभूताः परस्पर
मङ्गाङ्गिभावेन विराजन्ते प्रायशः संकर एवैतेषां बहुलतया ।
अक्लिष्टश्लेषस्सर्वासामासामलङ्क तीनां संरक्षक इव
प्रतिभाति ।
अक्लिष्टश्लेषोऽस्य जन्मसिद्ध गुण । कवीनां दुर्लभेषु गुणेष्वभिलप
णीयेष्वयमेकः । भट्टबाण: कविशिरोमणिरेवं वदति" नवोर्थो जाति
रग्राम्या श्लेषोऽक्लिष्ट स्फुटो रसः । विकटाक्षरबन्धश्च कृत्स्नमे कत्र
दुष्करम् इति । दुर्लभा एते सर्वेऽप्यत्र विराजन्त इति मद्रीया
यामाग्रत्व्याख्याभूमिकायां विस्पष्टं निरूपितम् । एतदलङ्कारास्सर्वे लक्षण
समन्वयपूर्वकं व्याख्यायामस्मदीयायां प्रत्यपादि । शब्दालङ्कारा अपि
बहुलतयैवास्मिन्नुपलभ्यन्ते । वृत्त्यनुप्रासच्छेकानुप्रासाः प्रायशस्सर्वत्र
गोचरीभवन्ति । यमकादयस्तु तत्र तत्र संदृश्यन्ते । अक्षररम्यतेय
मस्यास्सहजाता । तां विना पद्यमेव नेति वक्तुं शक्यते । इत्थं
काव्यसामग्रीपौष्कल्येन समुचिततया
समुचिततया संघटितेयं
संघटितेयं काव्यश्रीरद्वितीया
विराराज्यते ।
"
एतदनन्तरकालिको विदाखण्डलस्तीन्द्रमठाधिपतिर्नारायण
कवीन्द्रस्सर्वतोमुखतयेदं काव्य मनुकुर्वाणो रचयामास "राघवेन्द्रविजयं
नाम महाकाव्यम् । क्री० श० A.D. 17 शताब्दीयोऽयम् । अकथितोऽप्य
नेन ज्ञायतेऽस्य काव्यस्य प्राशस्त्यं वर्णनातीत मिति । सर्वधाऽनुचकार
'मधुराविजय' मिति नारायणकत्रीय काव्यं सर्वदति साक्षि । विदुषी
मण्या अस्यास्तदेव गमकं पाण्डित्यकवितावैदुष्ययोः ।
कथासंविधानम्
अस्याः कथायास्संघटने रामायणतौल्यं प्रतिभाति ।
दशरथ इव बुक्कराजोऽत्र, साकेतनगरीव च विजयानगरी वर्णितौ ।
रामायणे
रामायणकथा दशरथेन समारब्धा । एतत्कथा च बुक्कराजेन । स
बहुपत्नीकः । अयमपि तथा । तस्य राजधानी तावदयोध्या । अस्य