मधुराविजयम् /486
This page has not been fully proofread.
58)
पञ्चम सर्गः
दिति भावः । तादृशैः अङ्गकैः अवयवैः तैस्सह । सहार्थे तृतीया ।
नृपतेः राज्ञः सविधम् समीपम् गतः यातः तत्सविधस्थस्सन्नित्यर्थः ।
शिशिरानिलम् शिशिरर्तुवायुम् अपदिशन् व्याजयन् तत्र कारणत्वेन
निदिशन् । शीतवायो
शीतवायोः अनुरागस्य च सममेव तज्जनकत्वादिति
भावः । तथा कुर्वन् सन् ( तदानीमेव) मदनात् मन्मथात् कामात्
संभृता: सुष्ठु धृता: घर्मपयःकणाः स्वेदबिन्दवः तैः सात्त्विकरूपै
रित्यर्थः । भृशम् अधिकम् । शिशिरे एतदसंभवादिति भावः । अल
ज्ज़त अलपत । स्वनिगुप्तस्यार्थस्य बहिरभिव्यक्तेर्मनस्संकोचरूप लज्ज़ो
दयस्तासामासीदित्यर्थः । ओ लस्जी ब्रीडने लड़ । स्वानुरागोदयमाच्छा
दयितुं प्रवृत्ता इति स्वानुरागाभिव्यक्तौ च भृशं लज्जन्त इति
लज्जाविजितमन्मथत्वेन मुग्धात्वमासामवगम्यते । अत्र निज़ानुरागं
गोपायितुं प्रवृत्तानां नायिकानां तदन्यथाकृतिस्संवृत्तेति विषमभेदोऽस
ङ्गतिभेदो वाऽलङ्कारः । सात्त्विकभावा अष्ट । 'स्तम्भः प्रलयरोमाञ्चौ
स्वेदो वैवर्ण्यवेपथू। अश्रुवैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः "
इति । एषु स्वेदरोमोद्गमावपि द्वौ । तावत्र वर्णितौ ॥
(6
Q
बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते । तत्राद्यं चुम्बना
श्लेषनखदन्तक्षतादिभिः । द्वितीयं सुरतं साक्षान्नानाकरणकल्पितम् "
इति कामशास्त्रम् । तत्र बाह्यं वर्ण्यते -
द्विगुणयन्नधरव्रणवेदनां
कृतकच ग्रहणः परिचुम्बनैः ।
कपटरोषकषायितलोचनं
निभृतहासमवेक्ष्यत यौवतैः ॥
60
349
11
द्विगुणयन्निति
॥ स इति शेषः । सः कम्पराजः । कृतानि
आचरितानि कचानाम् केशानाम् ग्रहणानि स्वीकरणानि केशपाश
परिग्रहणानि येषु तैः । तथाविधैः परिचुम्बनैः पुनः पुनश्चुम्बनैः