This page has not been fully proofread.

पञ्चमसर्गः
 
कुन्दम् । हेमन्ते प्रादुर्भवति । शिशिरे प्रौढीभवतीति विशेष : " इति ॥
 
हेमन्तोचितोपभोगं राशि वर्णयन्ती हेमन्तमुपसंहरति
 
बहुलकुङ्क
मपङ्कविलेपन
प्रसृमरोष्मपयोधरमण्डलैः ।
अरमताविरतं रमणीजनै
 
रगरुगन्धिषु गर्भगृहेषु सः ॥
 
L
 
-
 
इति सुखान्युचिनानि हिमागमे
समनुभूय मनोभवसन्निभः ।
शिशिरयामवतीष्वपि रागवान्
 
रमयितुं रमणीरुदयुङ्क्त सः ॥
 
11
 
345
 
बहुलेति ॥ सः कम्पराजः कर्ता । अगरुगन्धिषु अगरुगन्ध
वत्सु । अगरुगन्ध: एण्वस्तीति इनि: । अगरुधूपैर्धूपायितेष्वित्यर्थः । गर्भ
गृहेषु गृहान्तर्भागेषु । बहल: अधिकः । बहुलशब्दपर्यायो बहलशब्दः ।
बहे: कलच् । कुङ्कमपङ्कः कुङ्क पुष्पद्रवः । तस्य विलेपनम् अनुले
पनम् चर्चा तेन प्रसृमरम् व्याप्तम् ऊष्म औष्ण्यम् येषां तथोक्तानि ।
तानि पयोधरमण्डलानि वर्तुलाः स्तनाः येषां तैः । 'कूपोदकं वट
च्छा' येति न्यायेन स्वतएवेदानीमुष्णं स्तनमण्डलं कुङ्कुमलेपनेनो
ष्णाधिक्यमभजतेति भवः । तादृशैः रमणीजनैः स्वसुन्दरीभिस्सह ।
अविरतम् अनिशम् चिरकालमित्यर्थः । दीर्घयामत्वात्त्रियामाया अद्येति
भाव: । अरमत अक्रीडत क्रीडासक्तोऽभवदित्यर्थः । शीतकाले स्त्रिय
स्स्वकुचतटी: कुङ्कमपङ्केन लिम्पन्ति । अत्रागमः ।
कृतप्रलेपो हैमन्तिकानाशु निहन्ति दोषान् " इति ॥
 
'काश्मीरपङ्केन
 
शिशिरवर्णनायोपक्रमते
 
55 n
 
56
11