This page has not been fully proofread.

मधुराविजये
 
भाति । जालकं प्रति कालिदासः
 
" वाम
 
" उपचितावयवा शुचिभिः कर्ण
रलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत मञ्जरी तिलक़जालक
जालकमौक्तिक़ैः " इति । तस्य विभ्रमः विलासः । सः यस्मिन्
तथोक्तम् । अलकधृतविकसित कुन्दबृन्दस्तत्प्रमदा जनस्तदानीं जालकाल
ङ्क तचूर्णकुन्तल इव विराजत इति भावः ।
अतएव तथाविधम्
प्रमदाजनम् स्त्रीसमूहम् स्वप्रिया: बह्वीरित्यर्थः । असमये अकाले
अनुचिते काले अप्रसक्तरतिक्रीडायां वेलायामपीत्यर्थः । जालकाख्यं
भूषणं प्रियकृतनखक्षतदशनच्छदादिपीडोपशमनार्थं रतिक्रीडाकाले धरन्ति
स्त्रिय इति प्रसिद्धिः । कटीभूषणतयाप्यस्य धारणं वर्ण्यते
श्वास्याः कररुपदैर्मुच्यमानो मदीयैर्मुक्ताजलं चिरविरचितं त्याजितो
दैवगत्या " इति मेघः । मेघसंदेशेऽस्मिन्नेव " या वः काले वहति
सलिलोद्गारमुच्चैर्विमानैर्मुक्ताजालग्रथित मलकं कामिनीवाभ्रबृन्दम्
इति । अत्र क़ौटिल्यः – " हारयष्टिप्रभेदाधिकारे - " सुवर्णसूत्रान्तरं
सोपानकं मणिमध्यं वा मणिसोपानकम् । तेन शिरोहस्तपादकटीकलाप
नेन मुक्तामयजालकालङ्करणेन सहितं यथा भवति तथा ।
इति । समौक्तिकमण्डनम् मौक्तिक मण्ड
अमन्यत । अत्र मौक्तिकजालक़मण्डनालङ्क तं स्वप्रियाजनममन्यतेलि
वाक्यार्थस्य समर्थनीयस्य ' विकत्रकापे त्यादिभिविशेषणगत्या
हेतुत्वेन समर्थनमभूदिति काव्यलिङ्गमलङ्कारः । अत्र ' माध्यं द
मिति शिशिरलिङ्गस्य कुन्दस्य हेमन्ते वर्णनमनुपपन्नमिति तु न । हेमन्त
शिशिरयोरुभयोरपि तल्लिङ्गत्वेनाभ्युपगमात् । अतएव कालिदासः-
" हस्ते लीलाकमलमलके बालकुन्दानुवेधो । नीता लोध्रप्रसवरजसा
पाण्डुतामनने श्रीः " इत्याह । अत्र नाधः – " कुन्देन हेमन्तसन्निधि
रुक्तः । ननु निषिश्चन् माधवीवृत्ति कुन्दशेषं च वर्धयन्' इत्यत्र
वसन्तप्राचीनस्य शिशिरस्य लिङ्गं कुन्दमिति प्रतीयते । कथं हेम
न्तस्य लिङ्गमित्युक्तम् । उच्यते । हेमन्त शिशिरयोद्वयोरपि लिङ्गं
 
जालकविकल्पा व्याख्याताः
 
अमंस्त
 
कुन्द
 
344
 
(
 
1
 
"
 
-
 
1