मधुराविजयम् /480
This page has not been fully proofread.
पञ्चमसर्ग़:
यन्ते । क्रीडाकाले च नायककरस्पर्शादिभिश्च तथैव । बाह्यसुरते च
कुचसम्मर्दादिना स्तनयोरेते पुलका विस्तृता भवन्तीति कुचमण्डल
योरित्युच्यते । अन्यत्रापि कुचानामत्युन्नतत्वेन शीतवायुसंचारस्य भृशं
तत्त्रैवावकाश इति नितरां पुलकितत्वं तत्रैव संगच्छते । बाह्यसुरत
क्रीडायां दन्तच्छदपीडनादिना सीत्काराः मुखेषु जायन्ते । शीतकाले
शैत्यबाधातिशयवशात्सीत्कारोद्गमश्च मुख एव संभवति । अत एता
स्स्मरतन्त्रमनुभवन्तीव संभाव्यन्त इति क्रियोत्प्रेक्षेयम् । उत्प्रेक्षाया
मस्यां 'पुलककञ्चुकितै रित्यादीनि विशेषणगत्या हेतुभावं भजन्त
इति समुत्थितं काव्यलिङ्गमुत्प्रेक्षया संकीर्यते । शीतवायुना सीत्कार
पुलकाङ्कुरान् कान्तासु क़वयो वर्णयन्ति- "केशानाकुलयन् दृशो
मुकुलयन् वासो बलादाक्षिप । न्नातन्वन् पुलकोद्गमं प्रकटयन्नावेगकम्पं
शनै । र्वारं वारमुदारसीत्कृतकृतो दन्तच्छदान्पीडयन् । प्रायश्शैशिर एष
संप्रति मरुत्कान्तासु कान्तायते ॥ इति ॥
"
"
"
विकच कुन्दकलापपरिष्क्रिया
विरचितालकजालकविभ्रमम् ।
असमयेऽपि समौक्तिकमण्डनं
प्रभुरसंस्त निजं प्रमदाजनम् ॥
सितानि कुन्दानि माध्यानि ।
रत्नकोषः । तेषाम् कलापः ससूहः ।
विकचेति ॥ प्रभुः स्वामी कम्पनः । कर्ता । विकचानि विक
' माध्यः कुन्दः कुरुण्टकः इति
कलापस्संहतौ बर्हे काञ्चयां
भूषणतूणयो: ' इत्यजयः । तस्य परिष्क्रिया अलङ्करणम् तेन विर
चितम् ग्रथितम् संघटितम् । अलकेषु चूर्णकुन्तलेषु कुटिलकेशेषु ।
अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तलेषु' इति मेदिनी । तत्र जाल
मेव जालकम् तदाख्योऽलके धार्यमाणो मौक्तिकभूषाविशेषः ।
मययष्टिजालग्रथितसरविशेषत्वा 'ज्जालक ' मिति व्यवहार इव प्रति
6
54
7
348