This page has not been fully proofread.

57)
 
पञ्चम सर्गः
 
मौर्व्यामप्रधाने
 
देवमुक्ति: । प्रकृष्टगुणवती: कुर्वन्निति च । 'गुणो
रूपादौ सूद इन्द्रिये । त्यागशौर्यादिसत्त्वादिसन्ध्याद्यावृत्तिरज्जुषु' इति
मेदिनी । अत्र
" प्रणदय नित्येव मातृकापाठः । अस्मिन् पाठे
प्रणदयन् प्रध्वनयन् रतिकूजितैः रात्री: प्रकृष्टध्वनिमतीः कुर्वन्नित्यर्थं
इति प्रतिभाति । तादृशस्सन् । समुपागमत् समागच्छत् सन्निहितोऽ

भवदित्यर्थः । अत्र हेमन्तसमुपागमस्य राज्ञः प्रियाचरणं वस्तुतो न
फलम् । तथापि फलत्ववर्णनं तस्येति फलोत्प्रेक्षेयम् ॥
 
हिमभरैविहतः कमलाकरो
 
मृदित कान्तिरभून्मृगलाञ्छनः ।
वदनमेव नरेन्द्रनत भ्रुवा
सभजत श्रियमप्रतिशासनाम् ॥
 
52
 
॥ 11
 
34i
 
हिमभरेति ॥ कमलाकर:- कमलानाम् पद्मानाम् आकर:
समूहः कमलवनम् । 'आकरो निकरे खनौ' इति सुधा । हिमभरैः
तुषारातिशयैः अतिशयिततुषारै: हिमसंहत्येत्यर्थ: । विहतः सुष्ठु हिंसितः
हिमाच्छादितत्वेन विकासलवेनापि विरहितः । किञ्च । मृगलाञ्छनः
हरिणाङ्क चन्द्रः। मृदिता नष्टा कान्तिः ( स्व ) प्रकाशः यस्य
तथोक्तः । अप्रकाशमान इत्यर्थः । तथाभूतः आसीत् बभूव । हेमन्ते
प्रवृत्ते इत्यर्थः । नरेन्द्रस्य राज्ञः नते कुटिले वक्रे । 'नतम् आविद्धं
कुटिलं भुग्नं वेल्लितं वऋमित्यपि' इत्यमरः । तादृश्यौ भ्रुवौ नेत्रो
परिभागौ यासां तासाम् नतभ्रुवाम् सुभ्रुवाम् स्त्रियाम् राजदाराणा
मित्यर्थः । तासाम् वदनम् मुखमेव न त्वन्यत् यत्किमपि जगतीत्येवकारार्थः ।
 
-
 
अप्रतिशासनाम्
न विद्यते प्रतिशासनम् स्वस्मादन्यस्य आज्ञापनम्
यस्याः ताम् । स्वाज्ञापनैकवशंवदाम् स्ववाञ्छानुसारिणीमिति यावत् ।
तादृशीम् श्रियम् लक्ष्मीम् शोभाम् अभजत असेवत प्रापेत्यर्थः ।
तस्मिन् हैमन्ते सर्वेषां कान्ति हैन्ये जातेऽपि राजदाराणां मुखानि पत्र