This page has not been fully proofread.

मधुराविजये
 
मभितो वलयाकारेण परिभ्रमन्ति । वस्तुस्थितिमिमां स्वप्रौढोक्त्या
वनभूमयो वनिता इति वेगेन विजितवायुं तमुत्तमाश्वं राजानुग्रहार्थे
नीराजयन्ति ताः किमिति संभावयन्ती तदनुगुणतया जपाकुसुमा
दिषु दीपादिसामग्रीं कल्पितवती । अत एवेयं क्रियोत्प्रेक्षा । वाचका
प्रयोगाद् ग़म्या । जपाकुसुमादिषु विजयारात्रिकत्वारोपस्समुज्जीवकोऽभव
दस्या इति रूपकानुप्राणिता क्रियोत्प्रेक्षा । विजयिन: वनिताभिर्नीराज्यन्त
इति प्रसिद्धम् – "नीराजयन्त्यन्ध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् ।
चन्द्रानना गोत्नपति रजन्यस्तारागणैरुमिव स्फुरद्भिः" इत्यादिना ॥
 
340
 
हेमन्तर्तु वर्णयति -
 
अथ नृपस्य समुत्सुकचेतसो
मदनकेलिकलासु विलासिनः ।
प्रियमिवाचरितुं समुपागम
[त्प्रगुणयन् ] क्षणदास्तुहिनागमः ॥
 
11 51 11
अथेति ॥ अथ अनन्तरम् शरदि गतायामित्यर्थः । तुहिना
गमः हेमन्तः । कर्ता । मदनकेलिकला: मन्मथक्रीडाविद्याः कामोपभोग
फलका: तासु । समुत्सुकम् उद्युक्तम् अतिशयितप्रयत्नम् ।' इष्टार्थोद्युक्त
उत्सुकः' इत्यमरः । उत्सुकशब्दमेवं व्याचख्यौ भोज: - "
स्वित्याधिक्यमभीप्सिते । तदस्यास्तीति मत्वर्थे कनिस्स्यादुत्सुको मतः
'उदित्युद्योगमाचष्टे
 
इति । तादृक् चेतः मनः यस्य तथोक्तः ।
 
कामोपभोगासक्तचित्त
 
इत्यर्थः । अतएव विलासिनः विलसनशीलस्य शृङ्गारिणः । नृ
राज्ञः । प्रियम् प्रीतिम् आचरितुम् कर्तुमिव तं प्रीतिमन्तं विधाय
तदनुग्रह संपादयितुं किमिति संभावना । क्षणदा: रात्री: । 'रात्रिस्त्रियामा
इत्यमरः । ताः प्रगुणयम् प्रगुणवतीः आवृत्तिमतीः
दैर्ध्यवतीरिति यावत् । तथाविधाः कुर्वन् । हेमन्ते रात्रीणां 'दीर्घत्वा
 
क्षणदा क्षपा
 
"