This page has not been fully proofread.

पञ्चमसर्गः
 
विमुखा बभूवुः
 
इति । सप्तच्छदगन्धेन साकं तेषां मदोदय इति
 
च स एवेत्थमाह - " प्रसवैस्सप्तपर्णानां मदगन्धिभिराहताः । असूययेव
 
-
 
तन्नागास्सप्तधैव प्रसुस्रुवुः" इति ॥
 
"
 
आरामभूमीर्वर्णयति
 
-
 
वनभुवः परितः पवनेरित
र्नवजपाकुसुमैः कृतदीपिकाः ।
प्रथममेव नृपस्य निदेशतो
विजयिनस्तुरगान्निरराजयन् ॥
 
11
 
50 11
 
339
 
वनभुव इति ॥ वनभुवः आरामप्रदेशाः । कर्भ्यः । स्त्रिय
इति च गम्यते ।
आरामस्स्यादुपवनं कृत्रिमं वनमेव तत्' इत्य
मरः । पवनेन वायुना ईरितैः कम्पितैः । नवानि नूतनानि सद्यो
विकसितानि । अनेनारुण्यातिशयस्तेषु ज्ञायते । तेन दीपसाम्यं च
परिपुष्टं भवति । तादृशानि जपाकुसुमानि उडुपुष्पाणि 'उडुपुष्प
जपा' इत्यमरः । तैः कृताः परिकल्पिता: दीपिका: दीपा: ज्वलन्तः
अग्नयः यासां ताः तथभूतास्सन्तः । अरुणानि जपापुष्पाणि दीप
वत्कृत्येत्यर्थः । नृपस्य राज्ञः निदेशतः निदेशे समीपे । 'निदेशश्शास
नोपान्तकथनेषु प्रयुज्यते' इति विश्वः । प्रथमम् आदावेव स्वोपज्ञत
येत्यर्थ: । विजयिन: जयिनः संप्राप्त विजयान् अनेकवारं शत्रून् जित्वा
विजयं लब्धवत इत्यर्थः । वेगतो वायुं जितवत इति च गम्यते ।
व इनिः । तथाविधान् तुरग़ान् अश्वान् राज्ञा
साकं स्वसमीपमागतानित्यर्थ: । निरराजयन् नीराजयांचक्रुः । विजया
रात्रिकप्रदानेन तान् संभावयामासुरित्यर्थः । औपवाह्यमारुह्य राजा
वने विहरति । अतिवेगेन (वायुं जित्वा स्ववेगेन) धावति तत्र तुरगः ।
• जपाकुसुमानि तदानीं तत्र विकसितानि वायुचलितानि भूत्वा तुरङ्गम