This page has not been fully proofread.

336
 
मधुराविजये
 
दर्पणमकर्षदि ' वेति वाच्योत्प्रेक्षां परिपोषयत इत्यङ्गाङ्गिभावस्तया
साक़मेतयोः । अतस्संकरः । स चैकत्र सजातीयोऽन्यत्र विजातीय
 
इत्यवगन्तव्यः ॥
 
शरद्रात्रयः प्रकथ्यन्ते
 
-
 
विलसदुत्पललोचनशालिनी
स्फुरितचन्द्रमुखीः कुमुदस्मिताः ।
नरपति स्फुटतारकहारिणी
निरविशयिता इव यामिनीः ॥
 
47
10 11
 
विलसदिति ॥ नरपतिः राजा कम्पनः ।
रात्रीः शारदरात्रीः दयिताः स्वप्रिया इव निरविशत् उपबुभुजे अनु
कर्ता । यामिनीः
बभूव । दयिता यथा स्वसौन्दर्यातिशयेनास्य चित्तमपाहरन् तथैवैता
अपि तस्य हृदयरञ्जिकास्सौख्यानुभूतिमापादयन्निति वाक्यार्थः। तदेवो
पपादयति – विलसदुत्पलशालिनीः । शरत्पक्षे । विलसन्ति उत्पलानि
नीलोत्पलानि तान्येव लोचनानि तैः शालन्त इति णिनिः । दयिता
पक्षे - विलसदुत्पलानीव लोचनानि तैः
स्फुरित: प्रकाशनानः चन्द्रः स
 
शालन्त इति विशेषः ।
एव मुखम् यासां ताः । अन्यत्र
 
स्फुरित चन्द्रवन्मुखं यासामिति विशेषः । कुमुदम् कैरवम् सितोत्पलम्
तदेव स्मितम् मन्दहास: यासां ताः ।
 
विकसितमित्यर्थः ।
 
मनोज्ञाः ।
 
कुमुदवत् स्मितम् यासामिति विशेष: । 'सिते कुमुदकैरवे' इत्यमरः ।
• स्फुटानि प्रस्फुटानि विराजमानानि तारकाणि नक्षत्राणि तैः हारिणी:
'नक्षवे चाक्षिमध्ये च तारकं तारकापि च इति
शाश्वतः । अन्यत्र स्फुटतारकाणि अक्षिमध्यभागाः कनीनिकाः यासां
ता इति विशेषः । ( तादृशी: यामिनी: निरविशत्) अन दयिता
इवेत्युपमा । केवलं श्लेषानुप्राणितेति श्लिष्टोपमेयम् ॥
 
अन्यत्र