मधुराविजयम् /472
This page has not been fully proofread.
पञ्चमसर्गः
गम्यते ।
विकचेति ॥ शरत् शरत्समयः । सैव सुन्दरीति
कर्त्री । विकचम् विकसितम् पद्मम् तदेव विलोचने नेत्रे यस्य
तथोक्तम् । विकचपद्मवत् विलोचने यस्येति च गम्यते । तथाविधं
भवति यथा तथा । आत्मनः स्वस्य । मुखम् आननम् अवेक्षितुम्
आलोकयितुम् निजमुख सौन्दर्य मनितरसाधारणं कृत्वा द्रष्टुमित्यर्थः ।
आत्तम् गृहीतम् धृतमिति यावत् । तादृशम् कुतूहलम् कौतुकम्
उत्कण्ठातिशयः यस्याः तथोक्ता । कदा द्रक्ष्यामीति सोत्कण्ठे वेति
ग़म्योत्प्रेक्षा। अभ्रम् मेघः । अभ्रं मेघो वारिवाह
7 इत्यमरः ।
तदेव निचोलः प्रच्छदपट: दर्पणाद्यावरणवस्त्रम् । • निचोलः प्रच्छद
"
पट: इत्यमरः । स एव
आदर्श: ।
निचोलकः । स्वार्थो कः । तस्य -गर्भतः
कुक्षितः अन्तर्भागादित्यर्थः । अहर्पतिः दिनपतिः सूर्यः स एव दर्पण:
आदर्शो दर्पणः प्रोक्तः '
इत्यमरमाला । सूर्यबिम्बस्य
वर्तुलत्वात्स्वच्छत्वात्प्रकाशवत्त्वाच्चैवमुक्तिः । तम् । अकर्षत् आचकर्ष ।
सवेगमगृह्णात् । नियतम् ध्रुवमिति संभावना । पद्मानां दीप्तिमत्ता
सूर्यस्य कान्तिमत्ता च शरदि भवतीत्युक्तम् । पटसंवृतस्य वस्तुनो
रजस्संस्पर्शादेरभावेन कान्तिमत्ता लोकसिद्धा । वर्षासु मेघावृतस्सूर्य: ।
शरदः ( स्वस्य ) मुखभूतानि पद्मानि सूर्यस्य तदानीं मेघावृतत्वेन
मुकुलितानि भूत्वा स्वमुखसौन्दर्यमलोपयन् । तथाविधं निजमुख
मिदानीं पद्मविकासेन तेजोविराजितं कृत्वा तद् द्रष्टुकामा, सूर्यस्य
मेघावरणमपनीय तदावरणापगमेन दीप्तिमति सूर्ये पद्मदीप्त्या वर्चस्वि
स्वमुखं सूर्यदर्पणे दृष्ट्वा परमानन्दमनुबभूव शरल्लक्ष्मीरिति तात्प
र्यार्थः। मेघावरणापगमेन तेजोऽतिशयवता सूर्येण विकासातिशयं
प्राप्य पद्मानि शरच्छोभामत्यन्तं पुपुषुरित्याकूतमत्र । अत्र चाहर्पंतौ
दर्पणत्वाद्यारोपश्शरदि सुन्दरीत्वरूपणमवगमयतीत्येकदेशविवर्तिरूपकम् ।
तच्च विकचपद्मवनमित्यत्रत्यश्लेषेणानुप्राणितम् । आत्तकुतूहलेवेति गम्यो
त्प्रेक्षा रूपकमिदं च हेतुसंपादनेन स्वरूपसंपादनेन च 'शरदहर्पति
}
"
१
335