This page has not been fully proofread.

56)
 
पञ्चमसर्गः
 
रिममेवार्थं स्वप्रौढोक्त्या – नद्यो नायिका इति हंसा नायका इति,
तेषां मानससरोगमनं नायिकाकलहेन नायकस्य देशान्तरप्रवास इति,
मानससरोगमने हेतुभूतं नदीकालुष्यं नायकापराधजनितं नायिकाया
मनःकालुष्यमिति शरदागमने तत्कालुष्यमपगच्छतीति चेटचनुनयेन
नायिकामनःकालुष्यप्रशमनं जातमिति, शरदि पुनरागत्य हंसास्सविलास
गत्या नदीभिस्संगच्छन्त इति नाय कास्सविलासमाग्रत्य नायिकाभिः
पुनस्संयुञ्जन्तीति शरच्च चेटीभूयैतानेताश्च संघटयतीति सचमत्कारं
वर्णयतीत्यवगन्तव्यम् । अत्र रूपकालङ्क तिः । रूपकं चेदमेकदेश विवति ।
'तटिनीसखी' रित्यादिरूपणेन शरदि चेटीत्वारोपस्यार्थसिद्धत्वात् ।
इदं च रूपकं श्लेषमूलातिशयोक्त्या परिपुष्टमित्यङ्गाङ्गिभावेनैतयो
स्सङ्करः॥
 

 
9
 
9
 
नदीषु हंसकूजितानि वर्ण्यन्ते
 
-
 
333
 
सरसिजाकरसञ्चरदिन्दिरा
 
चरणहंसकनिक्वणमन्थरः ।
मदनमङ्गलतूर्यरवोऽभव
न्मदकल: कलहंसकुलध्वनिः ॥
 
सरसिजेति ॥ मद: संतोष: उत्साहः तेन कल: अव्यक्तमधुरः ।
कलहंसानाम् कादम्बानाम् ' कादम्ब कलहंसस्स्या' दित्यमरः । राज
हँसानां वा । 'कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे' इति मेदिनी ।
तेषाम् कुलम् समूहः श्रेणीभूताः कलहंसा इत्यर्थः ।
 
तस्य ध्वनिः
 
नादः । कर्ता ।
 
सरसिज़ानि पद्मानि 'सप्तम्यां जने' रिति डः ।
 
45
 
'तत्पुरुषे कृती' ति बहुलमलुक् । तेषाम् आकरा: निलया: पद्माकरा:
 
तडागा:
 
'पद्माकरस्तडागोऽस्त्री'
 
इत्यमरः । यद्वा । सरसिजानाम्
 
आकर समूह इति वा आकरशब्दस्समूहवाची । 'आकरो निकरे