This page has not been fully proofread.

16
 
किसलयमिति, जलधाविति वक्तव्ये 'अधिजल' मिति, राज्ञीति वक्तव्ये
'राजनी' ति, कमलमिति वक्तव्ये 'कमलायत ' इत्यादिः इति । अत
एवेयं कवयित्री ' मञ्जरी ' ' कलाप ' ' लेखा' राजि प्रभृतीन् नूतन
च्छायापरिपोषणाय प्रयुयोज
 
उदा 2
 
11, .12
 
श्लो. 4 स.
 
68 श्लो. 4 स 57 श्लो• 6 स. 2 श्लो. 8 स. 2 श्लो. प्रभृतयः ॥
2
 
-
 
"(
 
स.
 
-
 
इत्थं गुणपौष्कल्यमत्र रसपरिपोषकं सत्समुल्लसतीति निवेदयामि ।
एषां गुणानां सर्वेषां गुणत्रयेऽन्तर्भाव इति नवीनमते तदभिव्यञ्ज
केष्वेते द्रष्टव्याः ।
 
(
 
शेतिः - वैदर्भीरीतिरस्मिन् काव्ये प्रायशः प्रवृत्ता । वैदर्भी
रीतिसंदर्भ कालिदासः प्रगल्भत इति त्वितः पूर्वा वाचोयुक्तिः । अस्य।
रौतेलंक्षणमित्थं दृश्यते
समग्रगुणोपेता वैदर्भी " इति वामनः ।
विवरणं चैतस्या इत्थम् – "अस्पृष्टा दोषमात्राभिस्तमग्रगुणगुम्फिता ।
विपश्चीस्वरसौभाग्या वैदर्भीरीतिरिष्यते" इति । इमां सूचयतीवेयं
कवयित्री काव्योपक्रमे – 'प्रबन्धमीषन्मात्रोऽपि दोषो नयति दूष्यताम् ।
कालागरुद्रवभरं शुक्तिक्षारकणो यथा
 
विद्वज्जन रञ्जिनी' त्यादि भाषते । कविपुङ्गवा एतां रीतिमेवं समस्तुवन् ।
निर्दोषाप्यगुणा वाणी न
" सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन
परिस्रवति वाङ्मधु" इति । गुणपौष्कल्यमस्मिन्नुदाहरण प्रदर्शन पूर्वक
संदर्शितमेव। नवीनमते गुणत्रयमेवाभ्युपगम्यते । तदानीं तदभिव्यञ्जकेषु
तेषु तेषु तेषां तेषामन्तर्भाव इत्यवगन्तव्यमित्युक्तम् । एकमेकं श्लोकमनेक
गुणगुम्फितं सद्वर्ततेऽस्मिन् काव्ये - उदा- 5 स. 46 श्लो. अत्र यथोपक्रम
निर्वाहाद्रीतिः । सर्वपदानि गाढ़ं संश्लिष्टान्येक पदवदवभासन्त इति श्लेषः ।
स्वरारोहावरोहाणाभ्यामत्र विच्छित्तिरिति समाधिः । पादचतुष्टयस्य
 
E