This page has not been fully proofread.

पञ्चम सर्गः
 
क़ालोदितमेघैरित्यर्थः। तैः कर्तृभिः । परिधौतम् सुष्ठु
नियतमिति संभावना। वर्षविधोः वर्षाक़ालिकचन्द्रस्य ।
वर्षाकालो लक्ष्यते । अपिशब्देन सनुच्चायकेन मण्डलमित्यध्याह्रियते ।
विधोर्मण्डलमपीत्यर्थः । उज्ज्वलम् दीप्तम् कान्तिमत् । 'उज्ज्वलस्तु
विकासिनि शृङ्गारे विशदे दीप्तेऽपि ' इति हैमः । अजनि । शरदि

चन्द्रसूर्ययोर्दीप्तिमत्त्वे हेतुरुत्प्रेक्ष्यते । वर्षासमयेऽम्बुदिन दिनमाच्छादितत्वेन
तत्संघर्षणं सूर्यस्य जातमिति शाणोल्लीढ इव दीप्तिमान् स असी
दिति । एवमेव चन्द्रस्यापि तस्मिन् काले वर्षधाराभिस्सह संघर्षण
मिति तद्धाराक्षालितमालिन्यवत्त्वेन तस्य दीप्तिमत्त्वमभवदिति । अत
एवेदमुत्प्रेक्षाद्वयम् । परस्परनै रपेक्ष्यादनयोत्सजातीययोस्संसृष्टिः। शरदि
चन्द्रसूर्ययोः कान्तिसमृद्धिमेवं कथयति भगवान् वाल्मीकिः "शाखासु
सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् । लीलासु चैवोत्तम
वारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता" इति ॥
 
नद्यो वर्ण्यन्ते द्वाभ्यां श्लोकाभ्याम्
 
जलदकालकलिस्फुरितां शनैः
कलुषतां प्रशमय्य कृशाः पुनः ।
घटयति स्म शरत्तटिनीसखी
रुपनतैः कलहंसविलासिभिः ॥
 
331
 
क्षालितम्
वर्षशब्देन
 
4.4 11
 
जलदेनि ॥ शरत् शरत्समयः । काचिच्चेटीति गम्यते । सा
कर्त्री । जलदकाल: वर्षाकाल: तस्य कलिः क़लनम् प्राप्तिः आगमः
क़लेर्भावे इन्नौणादिकः । स एव जलदकालकलिः नायिकान्त रासक्तस्य
नायकस्य नायिकया सह कलहः । तेन स्फुरिताम् व्यक्ताम् सभू
ताम् कलुषताम् । एकत्र नायिकायाः मनःकालुष्यम्, अन्यत्र नद्याः
पङ्किलताम् । शनैः मन्दमन्दम् क्रमेणेत्यर्थः । अपरुषैः वाक्यैरिति च ।