This page has not been fully proofread.

पञ्चमसर्गः
 
शरन्मेघान् प्रस्तौति -
 
-
 
329
 
तस्य
 
6
 
( धर्माधर्मवोधनेन ) शिक्षयतः आचार्यस्येत्यर्थः ।
हितबोधः । ब्रह्मोपदेश इति च गम्यते । तस्य वशः
तदनुसरणम् यथोक्ताचरणमिति यावत् । 'त्रिष्वधीने वशो वाञ्छा
प्रभुत्वाधीनतासु ना' इति नानार्थरत्नमाला । तस्मात् । तनुभृताम्
देहधारिणाम् शिष्याणामित्यर्थः । हृदयानि मनांसीव । कलुषताम्
पङ्कादिकृतं मालिन्यम् । रागादिसंभूतं चित्तदोषमिति च गम्यते । ताम् ।
कर्म । जहुः तत्यजुः अच्छान्यभवन्नित्यर्थः । शुद्धान्यासन्निति च गम्यते।
आचार्यो यथा धर्मप्रबोधेन रागादिदोषदूषितान्तःकरणान् शिष्यानविद्या
पगमनेन शुद्धचित्तान् करोति तद्वदयमपि मुनिस्स्वप्रादुर्भावेण पड्का
द्युद्भूतं मालिन्यमपनीय जलानि स्वच्छानि करोतीत्युपमार्थः । वाक्या
र्थोपमेयम् । अगस्त्योदयमित्थं प्रशंसति वराहसंहिता -
उदये च
मुनेरगस्त्यनाम्नः कुसुमायोगमलप्रदूषितानि । हृदयानि सतामिव स्वभा
वात्पुनरम्बूनि भवन्ति निर्मलानि " इति ॥
 
""
 
सदुपदेशः
 
अधीनता
 
विशदशारदनीरदशारितं
वियदलक्ष्यत वीततटिद्गणम् ।
प्रकटफेनकदम्बककर्बुरं
जलमिवाम्बुनिधेर्गत विद्रुमम् ॥
 
42 11
 
विशदेति ॥ विशदाः धवला: । शरदि भवाः शारदाः शर
संजाता: । 'सन्धिवेलाद्यूतुनक्षत्रेभ्य इत्यण् । तथाविधा: नीरदाः
'
जलदा: मेघाः । तैः शारितम् चित्रवर्णवत्कृतम् ।
शरन्मेघगतधवलिम्ना चेति भाव:
इत्यमरः । किञ्च । वीतः अपेतः अपसृत तटिद्गण विद्युत्समूह
यस्मात् तथोक्तम् । तथाविधम् विद्युद्धिरहितधवलमेघयुतं सदित्यर्थः ।
 
स्वगतनीलिम्ना
 
,
 
' शारो वायौ स तु त्रिषु कर्बुरे '