This page has not been fully proofread.

पञ्चमसर्गः
 
विजृम्भयन् सूर्यस्य दीप्तिमापादयन् विराजत इति निर्गलितोऽर्थः ।
शरदि सूर्यस्य कान्तिमत्त्वं जपाकाशयोविकासः मेघानामदर्शनं च
प्रसिद्धमित्येवं रूप्यते । अत्र सामस्त्येनावयवानामवयविनश्च रूपण
मिति समस्तवस्तुविषयकं रूपकमलङ्कारः ॥
 
(
 
'शरदीन्दुरविपटुत्वं
 
तत्र सूर्यचन्द्रयोर्दीप्तिमत्तां कीर्तयति –
 
जलाच्छतागस्त्यहंसवृषदर्पा' इति देवेशः ।
 
अवितथं रजनीदिवसाधिपौ
मधुरिपोर्नयने इति भाषितम् ।
 
स्फुटममुष्य यतस्स्वपनात्यया
 
दजनि तादृशमुन्मिषितं तयोः ॥
 
327
 
11
 
पती निशापतिः चन्द्र: दिनाधिपः सूर्यश्चेत्यर्थः ।
 
40
 
अवितथमिति ॥ रजनी रात्रि दिवस: दिनम् तयोः अधिपौ
तौ । मधोः तन्नाम
तस्य । नयने नेत्र
 
कस्य रक्षसः रिपुः शत्रुः तस्य हन्ता विष्णुः ।
भूते । सूर्यो दक्षिणं नेत्रं
 
चन्द्रश्च वामं नेत्रं विष्णोरित्यागमः ।
इति एवंविधम् भाषितम् वचनम् आगमानामित्यर्थः । 'व्याहार
उक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः । वितथम् अनृतं वचः ।
'वितथं त्वनृतं वचः' इत्यमरः । तन्न भवतीत्यवितथम् असत्यं न
सत्यमेवेत्यर्थः । तदेव समर्थयति - यतः यस्मात् येन कारणेनेत्यर्थः ।
हेतौ पञ्चमी । पञ्चम्यास्तसिः । अमुष्य प्रकृतस्य विष्णोः स्वपनम्
स्वापः शयनम् । जि ष्वप् रायने - भावे ल्युट् । तस्य अत्ययः परि
समाप्तिः प्रबोध इति यावत् । तेन । तयोः चन्द्रसूर्ययोः । तादृशम्
तथाविधम् अपरिमितम् । उन्मिषितम् उन्मेष: विकास अतिशयितः
• प्रकाशः । स्फुटम् व्यक्त सत् अजनि आसीत् ।
कादश्यां निद्राति विष्णु: । शरदि कार्तिक्या शुक्लैकादश्यां प्रबुध्यति
 
आषाढस्य शुक्लै