This page has not been fully proofread.

- 324
 
मधुराविजये
 
नववधूपरिरम्भणदोहला
न्यनुपदं निनदै: प्रतिपादयन् ।
अलभत क्षणदासु घनाग़मो
नरपतेः क़िल नर्मसुहृत्पदम् ॥
 
11 37 11
 
घनागमः मेघ
 
समागम:
 
स: निनदै:
अनुपदम्
 
नववधूरिति ॥ घनागमः वर्षर्तुः । कर्ता । ।
( नूतनतया ) अस्मिन्नस्तीति 'अर्शआ' द्यच् ।
ध्वनिभिः (मेघ) गर्जितैः । चतुरवचोरूपैरिति गम्यते ।
क्षणे क्षणे । पदे पदे इति वीप्सायामव्ययीभावः । प्रतिवाक्यमिति च
गम्यते । 'पदं शब्दे च वाक्ये च व्यवसायापदेशयोः' इति विश्वः ।
नववध्वः नूतनप्रियाः तासाम् परिरम्भणम् गाढाश्लेषः तस्मिन् दोह
लानि दोहदानि अभिलाषाः तद्विषयकाभिलाषाः नायकसम्बन्धि
इत्यर्थः । तानि । क्षणदासु रात्रिषु । उत्सवदायिनीषु स्थितिष्विति
च गम्यते । क्षणम् उत्सवम् ददाति । क़ः । केवलयौगिकोऽयम् ।
प्रतिपादयन् वितरन् मनोरथसिद्धिं कुर्वन् ।
त्यतिसृजत्यपि । ददते राति शणति प्रतिपादयतीति च ।
'वितरत्यर्पयति च
दाने "
इति भट्टलः । किलेति संभावनायाम् । एवं संभाव्यत इत्यर्थः ।
वाचयन् अभिव्यञ्जयन् नायकाभिलाषान् नायिकासविधे विशदयन्
तद्द्वारा मानं त्याजयन्निति च गम्यते । नरपतेः राज्ञः । नर्मसुहृत्
नर्मसचिवः। नायिकासंघटने नायकस्य सहायभूतः । एष च चतुर्विध
भेदाच्चतुर्विधः" इति । तत्रायं पीठमर्द इति ज्ञायते । 'कुपितस्त्री
नर्मसचिवः पीठमर्दविटचेटविदूषक
 
इत्यालङ्कारिकाः
 
66
 
(तेषाम् )
 
प्रणय
 
प्रसादक: पीठमर्द ' इति तल्लक्षणात् । वर्षासु मेघा गर्जन्ति
कुपिता अपि तद्गर्जनैर्भीता नायिकाः नायकमुपसृत्य गाढमालिङ्गन्ति ।
एवमेतदृतौ क़ान्तास्वयंग्रहाश्लेषणसीख्यमनुभवन्ति नायकाः । इत्थंभूते
वर्षौ कम्पराजस्य नर्मसाचिव्यसंभावना क्रियते
 
नर्मसचिवो यथा
 
-
 
""