This page has not been fully proofread.

पञ्चमसर्ग:
 
अहरत्यये ' त्यादीनि विशेषणगत्या कम्पराजरञ्जने हेतुभूतानीति
 
काव्यलिङ्गमलङ्कारः ॥
 
"
 
(
 
मणिमयानि गृहाणि समीरणा:
कुटजक़्तक सौरभवाहिनः ।
 
मदकलाश्च गिरः प्रचलाकिनां
 
क्षितिपतेस्स्मरदीपकतां ययुः ॥
 
11
 
-
 
823
 
मणिमयेति ॥ मणिमयानि रत्नप्रचुराणि । प्राचुर्ये मयट् ।
 
तथाविधानि गृहाणि भवनानि । किञ्च । कुटजा: गिरिमल्लिकावृक्षाः
कुटजश्शक्रो वत्सको गिरिमल्लिका' इत्यमरः । तेषां पुष्पाणि कुटजानि
गिरिमल्लिकाकुसुमानि । कँतकानि केतकीपुष्पाणि । तेषाम् सौरभम्
सुगन्धः तेन वस्तुं शीलमेषामिति णिनिः । तत्सौगन्ध्य संबन्धबन्धुरा
इत्यर्थः । तादृशः समीरणा: वायवः । किञ्च । प्रचलाक: बर्हः मयूर
पुच्छः स एषामस्तीति प्रचलाकिनः मयूराः । तेषाम् । मदेन संतो
षेण 'मदे रेतसि कस्तूर्या गर्ने हर्षेभदानयोः' इति विश्वः । कलाः
अव्यक्तमधुराः 'ध्वनौ तु मधुरास्फुटे कलः'
गिर: वाचः केका इत्यर्थः । च समुच्चये । समुच्चिता एतास्सर्वा
इत्यर्थः । क्षितिपतेः राज्ञः । ; स्मरम् मन्मथम् दीपयन्ति प्रज्वल
यन्तीति स्मरदीपकाः । तेषाम् भावः तत्ता । ताम् । ययुः प्रापुः ।
तस्य कामोद्दीपनं ते चक्रुरित्यर्थः । या प्रापणे लिट् । स कम्पप्रभु
र्मणिगृहेषु स्थित्वा केतक्यादिपुष्पसुगन्धयुतवायून् जिघ्रन् श्राव्याः
विहर्तुमैच्छदिति तात्प
 
इत्यमरः । तादृश्यः
 
के कारटृण्वन् प्रवृद्धमन्मथस्स्वकान्ताभिस्साकं
यर्थिः । वर्षावायूनां कामोद्दीपकत्वगन्यत्रापि वण्यंते – " कदम्बसर्जा
र्जुनकेतकीवनं विकम्पयंस्तत्कुसुमाधिवासितः । सशीकराम्भोधरसङ्ग
शीतलस्समीरणः कं न करोति सोत्सुकम्" इति ॥
 
36 11