This page has not been fully proofread.

पञ्चमसर्गः
 
तथोक्तैः । ते कदम्बपुष्पैरतिमनोहरा वर्तन्त इति भावः । एवंविधैः ।
विहारमहीधरैः क्रीडापर्वतैः । कर्तृभिः । नृपतेः राज्ञः । मनः चित्तम् ।
कर्म । सुहुः पुनः पुनः । अहारि अहृत अहियत । बलादाकर्षि ।
क्रीडामहीवरांस्तथाविधान् पश्यतस्तस्य मनो न वितृप्तमासीदिति
भावः । 'क्रीडामहीधरैर्नृपतेर्मनः अहियतेति वाक्यायें चलितबहिणे
त्यादिपदार्थाः विशेषणगत्या हेतुतामनुभवन्तस्समर्थनीयार्थसमर्थका अभ
वन्निति काव्यलिङ्गमलङ्कारः ।
 
यद्यपि मयूरनाटचनीपविकासादयः पूर्वं वर्णितास्तथापि क्रीडा
पर्वताश्रयत्वेन नृपमनोहारित्वेन च (भङ्गयन्तरेण) पुनर्वर्णनं न विरु
ध्यते । यत इयं महाकविशैलीसिद्धा रीतिः । यथाह माघः " कपाट
विस्तीर्णमनोरमोरग्स्थलस्थित श्रीललनस्य तस्य । आनन्दिताशेषजना
बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मी: " इति । अत्र प्रसाधितस्यास्येति
पूर्वलोकार्थ एव भङ्गयन्तरेण पुनरुच्यते । अत्र मल्लिनाथ :- " प्राये
णैकार्थमप्यनेकमुक्तिविशेषलाभाल्लिखन्ति कवयः । यथाहि नैषधे -
 
"}
 
आदावेव निपीयेत्यादिश्लोकद्वयम् तथा स्वकेलिलेशेत्यादिश्लोकद्वयं चं
 
9
 
इति । एवमन्यत्राप्यूह्यम् ॥
 
ऋतुकालोचितवेषधारणं राज़स्त्रीषु कथ्यते
 
तमहरन्नहरत्ययमालती
 
कुसुमदन्तुरकुन्तल कान्तयः ।
परिहिताग्ररुधूपितवासस
स्सुतनवो मृगनाभिसुगन्धयः ॥
 
तमिति ॥
 
सुतनवः । सुन्दराङ्गयः
 
मालतीकुम
 
11 35
 
321
 
11
 
शोभनाः सुन्दरा: तनवः शरीराः यासां ताः
 
राजस्त्रियः । कर्भ्यः । अहरत्ययः सायंकाल :
जातिपाणि । • सुमना मालती जातिः
 
(
 
,