This page has not been fully proofread.

पञ्चमसर्गः
 
वहाः गन्धवहाः वायवः ।
 
पृषदश्वो गन्धवहो गन्धवाहानिलाशुग़ाः
इत्यमरः । तैः करणभूतैः । प्रहिताः प्रेषिता: ग्रहाविष्टस्य समीप
प्रापिता । तं संस्पृष्टाः इति यावत् । अन्यत मानवतीनां समीपं
गमिताः । कैतकपांसवः केतकीकुसुमरेगवः । ता एव विभूतयः भस्मानि
यैः तथोक्ताः । भस्म यथा ग्रहाणां पीडाजनकतया ग्रहनिष्काससाधनं
तथा केतकीरेणुरयमपि रागोद्दीपकतया मानोच्चाटनसाधनमित्येवमुक्तिः ।
किश्च । स्तनितानि मेघगर्जतानि तान्येव हुंकृतयः हुंकाराः भयंकर
तया मान्त्रिकैर्ग्रहोच्चाटनाय समुच्चार्यमाणा हुमित्येवंरूपा निर्भर्त्सन
शब्दाः । मेघगर्जितानि श्रुत्वा हुंकारश्रवणेन ग्रहाविष्टा ग्रहमिव
मानं विमुञ्चन्ति स्त्रिय इत्येवमुक्तिः । तैः वरणभूतैः । युवतीनां समूह
यौवतम् ।
भिक्षादित्वादण् । नृपतेः राज्ञः यौवतम् नृपतियौवतम्
राजवधूजन इत्यर्थ: । तस्य मानः प्रणयकोपः स एव महाग्रहः
अनल्पः पूतनादि: भूतविशेष: ग्रहग्रस्ताः प्रियं द्विषन्ति तथा एता
अपि मानग्रस्ता इत्युभयोस्साम्यादेवमुच्यते । तम् कर्म । निरकासयन्
निरासयन् अमोचयन् । ग्रहाविष्टा ग्रहादिव प्रियपराङ्मुखा वल्लभा
मानान्मुक्ता: रागातिशयेन प्रियं समाश्लिष्यन्तीति भावः । कस गतौ
हेतुमण्ण्यन्ताल्लङ् । मान्त्रिका यथा ग्रहग्रस्तानां ग्रहोच्चाटनाय कृत्य
तर्जयन्तः स्वहस्ततलादुत्क्षिप्तमन्त्रविभूतिसंपर्केण महाग्रहानुच्चाटयन्ति
तद्वन्मेवा अपि स्वर्गार्जितैः प्रणयकोपेन प्रियपराङ्मुखीनां मानवतीनां
वर्षाकालवायुविक्षिप्तसौगन्ध्यवत्केत की कुसुमपांसुसंपर्केण
कामोद्दीपनं कृत्वा भयमुत्पादयन्तः प्रियसंगमोन्मुखीस्ताः कुर्वन्तीति
तात्पर्यार्थ: । अत्र करतलादीनां गन्धवहादीनां च सादृश्यमित्युपमा ।
कैतकपांसुत्वाद्यवयवरूपणेन मेघस्य मान्त्रिकत्वरूपावयविरूपण
 
स्वर्गार्जितैश्च
 
सा च
 
गम्यस्यै कदेशविवतिरूपकस्य
 
1
 
-
 
319
 
,
 
महदुपकरोतीति तेन साकं संकीर्यते ।
 
• मेघगर्जतानि कामोद्दीपकानि प्रणयकोपापनोदकानि चेति कविलोके
 
प्रसिद्धम्
 
भृशम् ।
 
पयोधरैर्भीमगभीरनिस्वनैस्तटिद्भिरुजितचेतसो