This page has not been fully proofread.

मधुराविजये
 
इत्यमरः । किञ्च । स्फुटन्तीति स्फुटाः प्रफ़ुल्लाः । स्फुटोऽव्यक्त
प्रफुल्लयो: ' इत्यमरः । स्फुट विकसने 'इगुपधेति' कः । तथाविधाः
कदम्बाः नीपवृक्षाः येषु । तयाभूतं सत् । 'नीपप्रियककदम्बास्तु हलि
प्रिये इत्यमरः । किञ्च । केतक्या: इमानि कैतकानि केतकीपुष्पाणि
उदश्चितानि विजृम्भितानि अतिशयितसौगन्ध्यवन्ति कैतकानि यस्मिन्
तथाभूतं सत् । किञ्च । मुदिताः संतुष्टाः चातका सारङ्गाः यस्मिन्
तथाभूतम् । 'सारङ्गस्तोककश्चातकस्समाः ' इत्यमरः । दिव्याम्बुपायि
त्वेन तेषां वर्षामेघदर्शने संतोष इत्येवमुच्यते । किञ्च ।
उन्नमितमुखाः। मेघप्रियत्वान्मुखमुन्नमय्य मेघावृतमाकाशं संतोषाति
शयेन वीक्षमाणा इत्यर्थः । तथाविधा: बहिणा: शिखिन: मयूराः
 
उन्मुखाः
 
यस्मिन् । तथाभूतं सत् । 'मयूरो वहिणो वहीं नीलकण्ठो भुजङ्ग
 

 
,
 
भुक् इत्यमरः । एवंविधं सत् आस रराज । अस गतिदीप्त्या
दानेषु – लिट् । विभिन्नाङ्करं विकसितार्जुनं पुष्पितकदम्बं सुरभि
केतकीपुष्पं संतुष्टचातकं सोत्साहमुद्रीक्ष्यमाणाकाशकबहकुलं
च सत्
दर्शनीयमासीद्वनानीकं तदानीमिति वर्षर्तुवैशिष्ट्यं प्रस्तूयते ॥
 
मेघगर्जतानां मन्मथोद्दीपकत्वं प्रस्तूयते
 
करतलैरिव गन्धवहैर्घनाः
 
प्रहित कृतकपांसुविभूतयः ।
स्तनितहुंकृतिभिनिरकासय
न्नृपतियौवतमानमहाग्रहम् ॥
 
318
 
,
 
-
 
33
 
करतलैरिति ॥ घनाः मेघाः मान्त्रिका इति गम्यते । मान्त्रिका
मन्त्रैर्भस्म संमन्त्र्य ग्रहग्रस्तस्योपरि करतलद्वारा विक्षिपन्ति तथा सेवा
अपि वायुद्वारा मन्मथोद्दीपक केतकीपुष्पपरागं विक्षिपन्तीत्येवमुच्यत ।
करतलैः हस्ताधःप्रदेशैरिव । वहन्त इति वहाः पचाद्यच् । गन्धस्य