This page has not been fully proofread.

54)
 
पश्चमसर्गः
 
मुक्तिः । दध्वनुः अगर्जन् । प्रणेदुः इति च ग़म्यते । अध्वगैः पथिकैः
प्रवासिभिः विरहिभिः । अध्वानं गच्छन्तीति गमे । स्फुटम् स्पष्टम्
प्रकाशितम् सर्वजनविदितम् साहसम् सहसा प्रवृत्तिः अविमृश्यकृतिः
यस्मिन् कर्मणि तथा । प्रकाशितस्वाविवेकमिति भावः । निशमिता:
आकर्णिताः। 'शृणोत्याकर्णयति च तद्वन्निशमयत्यपि ' इति भट्टमल्लः ।
मेघगर्जितानामत्यन्तं रागोद्दीपकत्वेन विरहबाधां सोढुमशक्नुवन्तः प्रवा
सिनस्तद्गर्जनश्रवणेन सुखिनो भवामेति तान्या कर्णयितुं प्रवृत्ता
इतीदं तदविवेकिताप्रख्यापकं केवलं साहसमेवेति तात्पर्यम् । अत्र
जलदध्वनिषु मन्मथपटहत्वतादात्म्यसंभावनेति द्रव्योत्प्रेक्षा । 'पटुतटिद्
गणकोण' इति रूपकं पटहसाम्यनिर्वहणे कृतप्रयत्नमित्यङ्गभावमस्या
अनुभवदनया संकीर्यते ॥
 
वर्षर्तोस्स्वभावः कथ्यते
 
-
 
दलित कन्दलमुच्छ्वसदर्जुनं
स्फुटकदम्बमुदश्चितकैतकम् ।
मुदितचात कमुन्मुखर्बाहणं
 
कतिचिदास दिनानि वनान्तरम् ॥
 
32
 
317
 
दलितेति ॥ वनान्तरम् वनप्रदेशः । कतिचित् दिनानि कानि
चन दिवसानि केषुचिद्दिवसेषु वर्षर्तुदिनेष्विति यावत् । ' कालाध्वनो'
रिति द्वितीया । दलितानि स्फुटितानि उद्भिन्नानि कन्दलानि नवा
वें॰राणि यस्मिन् तथाभूतं सत् । ' क़न्दलं त्रिषु कपालेऽप्युपरागे
नवाङ्क रे' इति मेदिनी । अङ्क रितावस्थया स्थगितानि पल्लवादीनि
स्वरूपाविष्करणं कुर्वन्तीति पल्लवितावस्थाप्रायमवस्थान्तरमनुभदन्त्येत
 
इति भावः । किञ्च । उच्छ वसन्तः विकसन्तः पुष्यन्तः अर्जुनाः ककुभाः
यस्मिन् । तथाभूतं सत् । 'नदीसर्जो वीरतरुरिन्द्रस्तु ककुभोऽर्जुन: '