This page has not been fully proofread.

मधुराविजये
 
कर्मणि यथा भवति तथा ।
 
कलापो भूषणे बर्हे तूणीरे संहतेऽपि
 
च' इत्यमरः । अनेन नर्तनमिदं देशिकमिति सूचितम् । चामरादि
परिभ्रमणं च देशिकनृत्ये भवति । तथा च लक्षणम् "दुकूलदण्डि
कामालाखङ्गचामरगोलकै । हस्तसंचारिभिः कुर्युर्नृ त्तं तद्देशिकं मतम्
इति । गिरितटीषु पर्वतोपरिप्रदेशेषु उन्नतासु रङ्गस्थलीष्विवेति
भावः । अनति अनृत्यत । नृतु नर्तने भावे
 
लुङ् ।
 
मेघगर्जतानि कवयति
 
316
 
6
 
-
 
पटुतटिद्गणकोणहताः पुरो
रतिपते: पटहा इव दिव्यकाः ।
निशमिताः स्फुटसाहसमध्वगं
र्जलधरा वियदध्वनि दध्वनुः ॥
 
11
 
31
 
"
 
"
 
पविति ॥ वियंदध्वनि आकाशवीथौ । जलधराः नीलजीमूताः
मेघाः । कर्तारः । रतिपतेः मन्मथस्य पुरतः अग्रतः जैत्रयात्रामारभ
माणे तस्मिन् तस्याग्रभागे इत्यर्थः । पटुः तीक्ष्णः निशितः कान्तिमान्
अन्यत्र दृढ इति च गम्यते । तादृशः तटिद्गणः विद्युत्समूहः
कोणः वादनसाधनम् । 'कोणो वीणादिवादन' मित्यमरः । तेन हता
स एव
हिसिता: व्यथिताः ताडिता: वाद्यमाना इत्यर्थः । अन्यत्र तम् विद्युद्
गणम् हताः प्राप्ताः तद्वन्त इति च गम्यते । हिंसागत्योः क्रमात्
हन्तेरेकत्र कर्मणि अन्यत्र कर्तरि क्तः । दिव्यकाः दिव्याः अमानुषा:
देवतासम्बन्धिनः । अन्यत्र दिवि भवा: आकाशवर्तिन इति च गम्यते ।
पटहा आनका इव 'आनक' पटहोऽस्त्रियाम् '
इत्यमरः ।
जैत्र
विद्यानाथः । पटहशब्दो भेरीपर्याय इति
"प्रतापरुद्रस्य दिगन्तजैत्रयात्रा
 
अतएव
 
यात्रायां पटहा वाद्यन्ते ।
 
प्रभूतैः पटहप्रणादै: " इति
 
वा। त इव । वर्षासमये मेघगर्जितानामत्यन्तं कामोद्दीपकत्वादेव