मधुराविजयम् /450
This page has not been fully proofread.
पञ्चमसर्गः
रुधिरबिन्दुनिभच्छविरन्वगा
त्क्षितितले हरिगोपपरम्परा ।
घनघरट्टपरस्परघट्टन
क्षरदिरम्मदवह्निकणावलिम् ॥
रुधिरबिन्दवः
रुधिरेति ॥ क्षितितले भूतले भूमावित्यर्थः ।
रक्तकणाः तैस्समा तथोक्ता । तादृशी छविः कान्तिः यस्याः । अति
लोहितवर्णेत्यर्थः। हरिगोपाः इन्द्रगोपाख्याः कीटाः तेषाम् परम्परा
श्रेणिः श्रेणीभूता इन्द्रगोपा इत्यर्थः । सा कर्ती । घनाः मेघा: त
एव घरट्टाः भ्रम्यच्छिलाद्वयरूपाः । ध्वनिसाम्यादेवमुच्यते । तेषाम्
परस्परघट्टनम् अन्योन्यगाढसंस्पर्श: तेन क्षरन् स्रवन् स्वस्थानात्संच
लन् बहिरागच्छन् । कासु चिच्छिलासु शिलाद्वयसंघर्षणादग्न्युत्पत्ति
र्लोकदृष्टा । तद्वदेवेत्यर्थः । तादृशः इरम्मदवह्निः मेघज्योतिः ।
'मेघज्योतिरिरम्मदः' इत्यमरः । इत्या जलेन माद्यति दीप्यत इति
वर्षोपलवृष्टि प्रब्रूते
-
313
व्युत्पत्तिः ।
'उग्रं पश्येरम्मद' इति साधुः । तस्य कणाः लेशा:
विस्फुलिङ्गाः
। प्रकाशनस्वाभाव्यादेवमुक्तिः । तेषाम् आवलिम् श्रेणिम् ।
अन्वगात् अनुससार ।
सर्वथा तथा सादृश्यं प्रापेत्यर्थः । इन्द्रगोपाः
रक्तवर्णाः धगद्धगितप्रकाशाश्च । वर्षासु ते सर्वत्र व्याप्य श्रेणीभूता
स्तिष्ठन्ति । एतादृशास्ते संघर्षणवशान्मेघान्निसृत्य वृक्षादौ पततां
वज्राग्नीनां स्फुलिङ्गपरम्परां धिक्कुर्वन्तीत्युपमार्थः । रुधिरबिन्दु
त्युपमा च लौहित्यातिशयसंपादनेन प्रधानोपमायामुपकरोतीत्युपमाद्वय
सङ्करः ॥
पटुपुरः पवनाधिगत भ्रमा
जलमुचः करकोपलकैतवात् ।
28 11