मधुराविजयम् /448
This page has not been fully proofread.
लब्धसत्ताकमिति तेन संकीर्यते ॥
पश्चमसर्गः
इन्द्रधनुर्वर्ण्यते
भङ्गयन्तरेण मेघोदय एव प्रकथ्यते
स्फुटतटित्तपनीय गुणोज्ज्वल:
पृथुपयःकणमौक्तिकसङ्गिभिः ।
अलिकदम्बकसच्छविभिदिशा
मसितकञ्च लिकायितमम्बुदैः ॥
स्फुटेति ॥ स्फुटा: विस्पष्टा: सुष्ठु प्रकाशमानाः तटितः
विद्युत
एव तपनीयगुणाः सुवर्णमयसूत्राणि तैः उज्वलैः भृशं
दीप्यमानैः । किञ्च । पृथव महान्तः अतिस्थूला इत्यर्थ: । पयःकणा:
जलबिन्दवः त एव मौक्तिकानि मुक्ता तः सङ्गिभिः संग्रतः सह
स्थितिं कुर्वद्भिः । किञ्च । अलीनाम् भ्रमराणाम् कदम्बकम् समूहः
परम्परा तेन सच्छविभिः समानकान्तिभिः । अम्बुदै: मेघैः । दिशाम्
दिगङ्गनानाम् । असिता नीला: कञ्चुलिकाः स्तनाच्छादकवस्त्राणि
चोलकानि तैरिव आचरितम् । 'कर्तुः क्यङ् सलोपचे' ति क्यङन्ता
द्भावे क्तः । अयं भावः । जलभरितत्वेन नीला मेघाः दिक्षु व्याप्ताः
दिगङ्गनाधताः कञ्चलिका इव राजन्ते । तत्र मेघाश्रया विद्युतः
कूपसकेषु शोभमानास्सुवर्णतन्तव इव प्रकाशन्ते ।
तदीया स्थूल
जलबिन्दवचोलकेषु ग्रथिता मुक्ता इव लक्ष्यन्त इति । अत्र तटित्सु
तपनीयगुणत्वाद्यारोप: जलदानां कञ्चुलिकायितत्वे साम्यं
यन् कृतार्थः । अलिकदम्बकसच्छवि रित्युपमा च कञ्चुलिकानामसित
त्वसमर्थने भृशमुपकरोति । अतो विजातीयसजातीयाभ्यां रूपकोपमाभ्या
सम्पाद
मुपमेयं संकीर्यते ॥
-
हरितलोहितपाण्ड रराजत
त्रिदशराजशरासनलेखिका ।
-
11
311
26