This page has not been fully proofread.

310
 
मधुराविजये
 
तत्रेत्यर्थः । विहरन्त्यः खेलन्त्यः संचलन्त्यः नृत्यन्त्यः तटितः विद्युतः
ता एव अङ्गनाः स्त्रियः नर्तक्यः तासामु ललितलास्यम् सुकुमाराङ्ग
विन्यासरूपं (स्त्री) नृत्यम् । " पुंनृत्यं ताण्डवं प्रोक्तं स्त्रीनृत्यं लास्य
मुच्यते " इत्यभिज्ञाः । नाटयभेदा एवं प्रदर्शिता भरतशास्त्रे - "उद्धत
करणाङ्गविक्षेपमारभटीवृत्तिप्रधानं ताण्डवम् । कोमलकरणाङ्गविक्षेपं
कैशिकीवृत्तिप्रधानं लास्यम्। अङ्गविक्षेपमात्रं नृत्तम् । विवाहाभ्युदयादी
सर्वरसप्रधानं नाट्यम् " इति ।
 
"
 
मरकत
 
तस्य हरिण्मणयः गारुत्मतरत्नानि
तेषाम् मण्डपाः जनाश्रयाः रङ्गप्रदेशाः । मयडर्थे षष्ठी ।
मणिनिर्मिताः मण्डपा इत्यर्थः । तथाभूतैः ।
मृदङ्गरवः मर्दलध्वनिः स एव उपमा उपमानम् येषाम् तथोक्तानि ।
तादृशि गर्जितानि स्तनितानि येषु तेष्विति बहुव्रीहिगर्भो बहुव्रीहिः ।
 
किञ्च ।
 
पटुः स्फुट:
 
'स्तनितं गजितं मेघनिर्घोषो रसितादि च '
वारिदैः मेघैः निबिडम् सान्द्रं यथा तथा ।
भावि । भावे लङ् ।
 
इत्यमरः । तादृशैः
आविरभूयत प्रादुर
 
दिशस्सर्वा व्याप्तास्तदानीं निरवकाशतया
वार्षिकैमेघैरिति भावः । तदानीं जलगर्भा नीलवर्णा मेघाः क्षणक्षणं
चलद्विद्युत्कान्तिभिः मृदुमधुरगम्भीरगजितैः वर्षितुं प्रावर्तन्तेति वस्तु
स्थितिः । अत्र प्रौढोक्त्या संगीतं तदानीं प्रवृत्तमिति कल्प्यते । तत्र
मेघानां नीलवर्णतया विशालतया च नर्तनादीनामाश्रयभूतानि नाटय
रङ्गस्थलानीव ते राजन्ते । ( हरिद्वर्णे नीलवर्णस्यापि सम्मिलितत्वा
नीलवर्णतया हरिद्वर्णं व्यवहरन्ति कवयः -
 
(
 
मरकतमणिनीलं बाल
 
मालोकयामः' इत्यादिना ) । विद्युतश्च तत्र क्षणक्षणं प्रकाशमानास्तत
इतो भ्रमणं कुर्वन्त्यो नर्तक्य इव दृश्यन्ते । गर्जितानि च तेषां
मधुरगम्भीराणि, तदङ्गतया प्रवृत्ता: मृदङ्गध्वनय इव लक्ष्यन्ते -
इति । आकाशे संगीतं प्रवृत्तमिति नृत्यगीतवाद्यानि प्रदर्शयितुं तटि
दादिष्वङ्गनात्वादिरूपणं क्रियत इति रूपकमलङ्कारः । तच्च परम्प
रितम् ।
'मृदङ्गरवोपमगर्जितै' रित्युपमा च रूपकपरिपोषणायैव