This page has not been fully proofread.

308
 
मधुराविजये
 
नक्षत्रश्रेणयः तत्परम्पराः यैः तथोक्ताः ।
 
आयतम्
 
जलयन्त्रै निरन्तरं प्रकीर्य
माणा जलबिन्दवस्तारकाभ्रान्ति जनयन्तीत्येवमुच्यते । तेषु हिमगृहेषु
जलयन्त्रैरत्यन्तं शीतलेषु भवनेषु ' स्थित्वा' इति शेषः ।
विस्तृतम् अतिवेलं प्रवृत्तम् दुस्सहमिति यावत् । तादृशम् दिवसतापम्
ग्रीष्मदिवसकृतमातपबाधम् । अहापयत् अगमयत् उपशमयांचकारेति
यावत् । ओहाङ् गतौ - इत्यस्माद्धेतु मण्ण्यन्ताल्लङ् ।
'अतिंही' ति
पुगागमः । जलयन्त्रेभ्यस्सततम विच्छिन्नतया प्रसृता जलबिन्दवस्तारका
इव राजन्ते । तत्संपर्कादतीव शैत्यं वहन्ति जलयन्त्रिता गृहाः । तेषु
स्ववधूभिस्सह विहरन् ग्रीष्मतापं नाविन्दत कम्पराज इति पिण्डी
कृतोऽर्थः । अत्र चाहार्यभ्रान्त्या तारकप्रसन्नकान्ति शीकरेषु संपाद्य
विशेषणगत्या दिवसतापापगमने हेतुसम्पादनं क्रियत इति भ्रान्तिमदङ्गं
काव्यलिङ्गमलङ्कारः ॥
 
इत आरभ्य वर्षतु वर्णयति
 
-
 
अथ दलन्निचुलद्रुममञ्जरी
निचयदर्शितचामरविभ्रमः ।
 
कृतनुतिः किल चातकयाच
नृपतिमन्वगमज्जलदागमः ॥
 
11
 
24 11
 
अथेति ॥ अथ अनन्तरम् ग्रीष्मर्तौ गते तदुत्तरकाल इत्यर्थः ।
जलदागमः वर्षर्तुः । जलदानाम् मेघानाम् आग़मः आगति: नूतनतये
त्यर्थः । सः अस्मिन्नस्तीति अर्शआदित्वादच् । सः कर्ता । दलन्तः
विकसन्तः निचुलद्रुमाः स्थलवेतसाः 'वानीरे कविभेदे स्यान्निचुलः
स्थलवेतसे' इति शब्दार्णवः । तेषाम् मञ्जयः पुष्पगुच्छाः तेषाम्
 
निचयः समूहः । एकीभूताः पुष्पस्तबका इत्यर्थः ।
सिद्धयर्थंमेवमुक्तिः । तेन दर्शितः दृष्टिपथं प्रापितः बहि प्रकाशित
 
चामरसादृश्य