This page has not been fully proofread.

पश्चम सर्ग:
 
9
 
कुचभरेषु निवेशयतो मुखंणEEF
नरपतेर्न वितृष्णमभून्मनः ॥ ॥22॥
एक
दिनविराम इति ॥ दिनविरामः सायंकालः तस्मिन् विकस्वराणि
विकासीनि विकसनशीलानि । विकासी तु विकस्वरः इत्यमरः ।
'स्थेशभासेति' वरच् । तादृ'शि मल्लिकाकुसुमानि
तेषाम् सौरभम् सुगन्धः तेन हारीणि मनोहराणि
तेषु । सुभ्रुवाम् सुन्दरीणाम् । कचभरेषु केशपाशेषु । मुखम् आननम् ॥
निवेशयतः तदाघ्राणनाय विन्यस्यतः जिघ्रत इति यावत् । नरपतेः
राज्ञः मनः चित्तम् ।विगता अपगता तृष्णास्पृहा अभिलाष
यस्मिन् वितृष्णम् निस्पृहम् तृप्तिमदिति यावत् । न अभूत् न आसीत् ।
अवितृप्ततया तन्मनः पुनस्तत्र प्रवृत्तमेवेति मल्लिकानां ऋतूचितसौभा
ग्यातिशयः प्रस्तूयते । अत्रापि 'सौरभहारि' वित्यादि विशेषणगत्या
हेतुतासमर्थकं तृप्त्यभावरूपवाक्यार्थ इति काव्यलिङ्गम् ॥
 
मल्लीपुष्पाणि
मनोज्ञानिः ।
 
S
 
हिमगृहाः वर्ण्यन्ते –
 
S
 
अम
 
हिमगृहेषु निरन्तरशी कर ली लोकुलछु
 
307
 
48 प्रकरदर्शिततारकपङ्क्तिषु
दिवसतापमहापयदायतं
 
वरवधूसहितो वसुधाधिपः॥23॥
 
कडा
हिमगृहा इति ॥ वसुधाधिपः भूपतिः । वरवध्वः रूपादिना
उत्तमाः स्त्रियः ( स्व ) शुद्धान्त कान्ता इति यावत् । ताभिः सहितः
तद्युक्तः ताभ्यां सहेत्यर्थः । निरन्तराः निरवकाशा: अविच्छिन्नप्रसराः
शीकराः जलबिन्दवः तेषाम् प्रकस समूहः तेन दर्शिताः चक्षुविषयतां
नीताः आविर्भाविताः कल्पिता इति यावत् । तादृश्यः तारकपङ्क्तयः