This page has not been fully proofread.

304.
 
मधुराविजये
 
' इणो गा लुङि' इति गाङादेशः । नायिकाः नायकाश्च ग्रीष्मे स्वेद
तापादिना परस्परमङ्गाङ्गसंस्पर्शमसहमानाः कामोपभोगेषु लालसा न
भवन्ति । अतो मन्मथस्तेष्ववकाशमलभमानस्स्वाश्रयभङ्गसंजातां महतीं
व्यथामनुबभूव । तस्मिन्नेव समये तापशान्त्यै युवतयस्स्व कुचतटान्
चन्दनानुलेपमुक्ताहारधारणादिना शोभायमानांचकुरिति तेन ज़ाताश्वासो
 
गजो
 
कश्चन
 
मन्मथस्तत्राश्रयं सम्पाद्य सुखी समपद्यत । यथावा
निदाघे प्रचण्डातपेन भृशं
 
तृषया च पीडितः परिभ्रमन् क्वापि जलमप्राप्य कथंचित्पर्वतोपत्यकां
प्रवाहसंभरितां चन्दनवृक्षैरतिशीतलां च समधिगम्य महान्तमानन्दमनु
 
भवति तद्वदिति पिण्डीकृतोऽर्थः । तदानीं मुक्ताहारचन्दनानुलेपनादिभि
रलंकृतं सदतीव मन्मथोद्दीपकं वर्तते युवतीनां स्तनयुगमिति परमार्थः ।
 
कामस्य निरवकाशत्वं ग्रीष्मे कश्चन कविरेवं कथयति
 
अङ्गाङ्ग
 
• सङ्गासहने तपर्तावन्योन्यमेवाभिमुखा युवानः । वाचापि केचिन्मनसापि
केचिद् दृशापि केचिद् दृढमालिलिङ्गः' इति । ग्रीष्मतापशान्त्यै युवतीनां
मुक्ताहारधारणादि 'तं पयोधरविषक्तचन्दनै मौक्ति
चारुभूषणैः । ग्रीष्मवेषविधिभिस्सिषेविरे श्रोणिलम्बिमणिमेखलैः प्रियाः
इति रघुः । अत्र
 
रूपणमवयावयविनोस्सामस्त्येन निबद्धमिति समस्तवस्तुविषयकं रूपक
'कुसुमायुधकुञ्जरः' 'कुचतटेषु ' इत्याद
मिदम् । सरसचन्दनधारिष्वित्यादिष्वर्थद्वयावगतिश्च साम्यवर्णने चमत्कार
 
कारीति रूपकपरिपोषण एव तस्य तात्पर्यमित्यवगन्तव्यम् ॥
 
संतापितस्स्वास्थ्यमलभमानस्सिष्णालया
 
तत्र सरश्शोषणं वर्ण्यते
 
-
 
ग्रीष्मतौ 'सरः पथिकशोषणवातोल्का वर्ष्याः' इति देवेशः ।
 
-
 
सलिलकेलि
कुतूहलकुन्तली
कुचतटाहतिजातभयैरिव ।
 
"