This page has not been fully proofread.

पश्चम सर्गः
 
कुचतटेषु निदाघनिपीडितो
 
धृतिमगात्कुसुमायुधकुञ्जरः
॥॥19॥
 
पारी कु
 
F THIS घर
 

 
सरसेति ॥ कुसुमायुधः मन्मथः स एव कुञ्जरः गजः । कर्ता ।
" खमुखकुञ्जेभ्यो इति रः । अप्रतिहतप्रसरत्वाद् दुनिग्रहत्वाच्चैव
मुक्तिः (निदाघनिपीडितःमत्मयपक्षे ) निदाघे ग्रीष्मे
निपीडितः अत्यन्तं व्यथितः । अङ्गाङ्गसंस्पर्शमसहमान योनिवृत्तकाम
योर्दम्पत्योस्तदानी मलब्धावकाशतया स्वस्य परं दुःखित इति भावः ।
तथाभूतस्सन् । गजपक्षे । निदाघः ग्रीष्मः तज्जन्य उष्णः । निदाघो
ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि' इति सुधा । तेन पीडितः नितरां
संतप्तः । हस्तिनामौष्ण्यं दुस्सहम् । तेषां शरीरे नित्यं प्रज्वलत्यूष्म ।
अतएव तेषां शीतलप्रदेश जल विहार जलपानादयस्सुखदायिनः । स्नाना
भावे तेषां संजायते कुष्ठम् । एतत्सर्वं कामन्दके स्पष्टमुक्तम् । अत
एव निपीडित: नितरां तापातिशयेन बाधित इत्युच्यते । तथाविधस्सन् ।
 
1
 
2
 
TS
 
स्
 
3039
 
सरसचन्दनधारिषु ( कुचपक्षे ) सरसम् सार्द्रम् चन्दनम् मलयजम
तत् धतु शीलमेषामिति णिनि: । ( तटपक्षे ) सरसाः सारवन्तः
लगी
चन्दनाः मलयजाः वृक्षाः तान् धर्तुमिति पूर्ववत् । किञ्च । "मुक्ता
एवं मौक्तिकानि विनयादिभ्यश्चेति ठक् । तेषाम् त्रिसराः
हारा: संतापहरणाय तदानीं स्त्रीभिधृता मुक्ताहारा इत्यर्थः। त एव
निर्झरा: प्रवाहाः तैः हारिषु "मनोहरेषु । एकत्र कामोद्दीपकत्वात्
अन्यत्र क्वाप्यलब्धस्य जलस्य लाभाच्च । सुभ्रुवाम् सुन्दरीणाम्
कुचा एव तटा: प्रपाताः पर्वतोपरि स्थिता उन्नतप्रदेशाः ।
तस्तु तटो भृगुः इत्यमरः ।
 
" प्रपा
 
गिर
TRUE DE FIFPPICEPIP.E
 
"
 
(
 
रिति
प्रपातस्त्वतटो..
 
पाठा
न्तरम् । तेषु । धृतिम् सौख्यम् । एकत्र क़ामोद्दीपकत्वात्, अन्यत
चन्दनवृक्षादिभिरत्यन्तं शीतलत्वाच्च । धृतिस्सौख्येऽपि धारणे' इति
यादव: । (ताम् ) अगात् अवाप अनुबभूवेत्यर्थः । इण् गतौ लुङ् ।